श्लोक 1
बलिनो बहु-दोषस्य स्निग्ध-स्विन्नस्य शोधनम् ।
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् स-स्नेहं यन् न कर्शनम् ॥ १ ॥
श्लोक 2
स-स्नेहं यन् न कर्षणम् पयसा फल-युक्तेन मधुरेण रसेन वा ।
सर्पिष्-मत्या यवाग्वा वा वमन-द्रव्य-सिद्धया ॥ २ ॥
श्लोक 3
वमेद् विरेचनं दद्यात् त्रिवृच्-छ्यामा-नृपद्रुमान् ।
शर्करा-मधु-सर्पिर्भिः पयसा तर्पणेन वा ॥ ३ ॥
श्लोक 4
द्राक्षा-विदारी-काश्मर्य-मांसानां वा रसैर् युतान् ।
शुद्ध-कोष्ठस्य युञ्जीत विधिं बृंहण-दीपनम् ॥ ४ ॥
श्लोक 5
मांसानां वा रसैर् युतम् हृद्यानि चान्न-पानानि वात-घ्नानि लघूनि च ।
शालि-षष्टिक-गोधूम-यव-मुद्गं समोषितम् ॥ ५ ॥
श्लोक
लघुम् अ-च्युत-वीर्यं च सु-जरं बल-कृच् च यत् ॥ ५+(१)अब् ॥
श्लोक 6
अव् लघुं चा-च्युत-वीर्यं च अव् लघुम् अद्भुत-वीर्यं च आजं क्षीरं घृतं मांसं क्रव्यान्-मांसं च शोष-जित् ।
काकोलूक-वृक-द्वीपि-गवाश्व-नकुलोरगम् ॥ ६ ॥
श्लोक 7
गृध्र-भास-खरोष्ट्रं च हितं छद्मोपसंहितम् ।
ज्ञातं जुगुप्सितं तद् धि च्छर्दिषे न बलौजसे ॥ ७ ॥
श्लोक 8
गृध्र-चाष-खरोष्ट्रं च मृगाद्याः पित्त-कफयोः पवने प्रसहादयः ।
वेसवारी-कृताः पथ्या रसादिषु च कल्पिताः ॥ ८ ॥
श्लोक 9
भृष्टाः सर्षप-तैलेन सर्पिषा वा यथा-यथम् ।
रसिका मृदवः स्निग्धाः पटु-द्रव्याभिसंस्कृताः ॥ ९ ॥
श्लोक 10
हिता मौलक-कौलत्थास् तद्-वद् यूषाश् च साधिताः ।
स-पिप्पलीकं स-यवं स-कुलत्थं स-नागरम् ॥ १० ॥
श्लोक 11
स-दाडिमं सामलकं स्निग्धम् आजं रसं पिबेत् ।
तेन षड् विनिवर्तन्ते विकाराः पीनसादयः ॥ ११ ॥
श्लोक 12
स्निग्धम् आज-रसं पिबेत् पिबेच् च सु-तरां मद्यं जीर्णं स्रोतो-विशोधनम् ।
पित्तादिषु विशेषेण मध्व्-अरिष्टाच्छ-वारुणीः ॥ १२ ॥
श्लोक 13
मध्व्-अरिष्टं च वारुणीम् सिद्धं वा पञ्च-मूलेन तामलक्याथ-वा जलम् ।
पर्णिनीभिश् चतसृभिर् धान्य-नागरकेण वा ॥ १३ ॥
श्लोक 14
कल्पयेच् चानुकूलो ऽस्य तेनान्नं शुचि यत्न-वान् ।
दश-मूलेन पयसा सिद्धं मांस-रसेन वा ॥ १४ ॥
श्लोक 15
बला-गर्भं घृतं योज्यं क्रव्यान्-मांस-रसेन वा ।
स-क्षौद्रं पयसा सिद्धं सर्पिर् दश-गुणेन वा ॥ १५ ॥
श्लोक 16
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥ १६ ॥
श्लोक 17
व्याघ्रीं गोक्षुरकं बलाः नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
कल्की-कृत्य घृतं पक्वं रोग-राज-हरं परम् ॥ १७ ॥
श्लोक 18
घृतं खर्जूर-मृद्वीका-मधुकैः स-परूषकैः ।
स-पिप्पलीकं वैस्वर्य-कास-श्वास-ज्वरापहम् ॥ १८ ॥
श्लोक 19
दश-मूल-शृतात् क्षीरात् सर्पिर् यद् उदियान् नवम् ।
स-पिप्पलीकं स-क्षौद्रं तत् परं स्वर-बोधनम् ॥ १९ ॥
श्लोक 20
शिरः-पार्श्वांस-शूल-घ्नं कास-श्वास-ज्वरापहम् ।
पञ्चभिः पञ्च-मूलैर् वा शृताद् यद् उदियाद् घृतम् ॥ २० ॥
श्लोक 21
पञ्चानां पञ्च-मूलानां रसे क्षीर-चतुर्-गुणे ।
सिद्धं सर्पिर् जयत्य् एतद् यक्ष्मणः सप्तकं बलम् ॥ २१ ॥
श्लोक 22
यक्ष्मिणः सप्तकं बलम् पञ्च-कोल-यव-क्षार-षट्-पलेन पचेद् घृतम् ।
प्रस्थोन्मितं तुल्य-पयः स्रोतसां तद् विशोधनम् ॥ २२ ॥
श्लोक 23
गुल्म-ज्वरोदर-प्लीह-ग्रहणी-पाण्डु-पीनसान् ।
श्वास-कासाग्नि-सदन-श्वयथूर्ध्वानिलाञ् जयेत् ॥ २३ ॥
श्लोक 24
रास्ना-बला-गोक्षुरक-स्थिरा-वर्षाभु-वारिणि ।
जीवन्ती-पिप्पली-गर्भं स-क्षीरं शोष-जिद् घृतम् ॥ २४ ॥
श्लोक 25
अश्वगन्धा-शृतात् क्षीराद् घृतं च स-सिता-पयः ।
साधारणामिष-तुलां तोय-द्रोण-द्वये पचेत् ॥ २५ ॥
श्लोक 26
तेनाष्ट-भाग-शेषेण जीवनीयैः पलोन्मितैः ।
साधयेत् सर्पिषः प्रस्थं वात-पित्तामयापहम् ॥ २६ ॥
श्लोक 27
मांस-सर्पिर् इदम् पीतं युक्तं मांस-रसेन वा ।
कास-श्वास-स्वर-भ्रंश-शोष-हृत्-पार्श्व-शूल-जित् ॥ २७ ॥
श्लोक 28
युक्तं मांस-रसेषु वा एलाजमोदा-त्रि-फला-सौराष्ट्री-व्योष-चित्रकान् ।
सारान् अरिष्ट-गायत्री-शाल-बीजक-संभवान् ॥ २८ ॥
श्लोक 29
भल्लातकं विडङ्गं च पृथग् अष्ट-पलोन्मितम् ।
सलिले षो-डश-गुणे षो-डशांश-स्थितं पचेत् ॥ २९ ॥
श्लोक 30
पुनस् तेन घृत-प्रस्थं सिद्धे चास्मिन् पलानि षट् ।
तवक्षीर्याः क्षिपेत् त्रिंशत् सिताया द्वि-गुणं मधु ॥ ३० ॥
श्लोक 31
घृतात् त्रि-जातात् त्रि-पलं ततो लीढं खजाहतम् ।
पयो-ऽनु-पानं तत् प्राह्णे रसायनम् अ-यन्त्रणम् ॥ ३१ ॥
श्लोक 32
मेध्यं चक्षुष्यम् आयुष्यं दीपनं हन्ति चा-चिरात् ।
मेह-गुल्म-क्षय-व्याधि-पाण्डु-रोग-भगन्दरान् ॥ ३२ ॥
श्लोक 33
ये च सर्पिर्-गुडाः प्रोक्ताः क्षते योज्याः क्षये ऽपि ते ।
त्वग्-एला-पिप्पली-क्षीरी-शर्करा द्वि-गुणाः क्रमात् ॥ ३३ ॥
श्लोक 34
चूर्णिता भक्षिताः क्षौद्र-सर्पिषा वावलेहिताः ।
स्वर्याः कास-क्षय-श्वास-पार्श्व-रुक्-कफ-नाशनाः ॥ ३४ ॥
श्लोक 35
सर्पिषा चावलेहिताः विशेषात् स्वर-सादे ऽस्य नस्य-धूमादि योजयेत् ।
तत्रापि वात-जे कोष्णं पिबेद् औत्तरभक्तिकम् ॥ ३५ ॥
श्लोक 36
पिबेद् उत्तर-भक्तिकम् कासमर्दक-वार्ताकी-मार्कव-स्व-रसैर् घृतम् ।
साधितं कास-जित् स्वर्यं सिद्धम् आर्तगलेन वा ॥ ३६ ॥
श्लोक 37
बदरी-पत्त्र-कल्कं वा घृत-भृष्टं स-सैन्धवम् ।
तैलं वा मधुक-द्राक्षा-पिप्पली-कृमिनुत्-फलैः ॥ ३७ ॥
श्लोक 38
पिप्पली-कृमिहृत्-फलैः हंसपद्याश् च मूलेन पक्वं नस्तो निषेचयेत् ।
सुखोदकानु-पानं च स-सर्पिष्कं गुडौदनम् ॥ ३८ ॥
श्लोक 39
अश्नीयात् पायसं चैवं स्निग्धं स्वेदं नियोजयेत् ।
पित्तोद्भवे पिबेत् सर्पिः शृत-शीत-पयो-ऽनुपः ॥ ३९ ॥
श्लोक 40
क्षीरि-वृक्षाङ्कुर-क्वाथ-कल्क-सिद्धं स-माक्षिकम् ।
अश्नीयाच् च स-सर्पिष्कं यष्टीमधुक-पायसम् ॥ ४० ॥
श्लोक 41
बला-विदारिगन्धाभ्यां विदार्या मधुकेन च ।
सिद्धं स-लवणं सर्पिर् नस्यं स्वर्यम् अन्-उत्तमम् ॥ ४१ ॥
श्लोक 42
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला ।
साधितं क्षीर-सर्पिश् च तत् स्वर्यं नावनं परम् ॥ ४२ ॥
श्लोक 43
लिह्यान् मधुरकाणां च चूर्णं मधु-घृताप्लुतम् ।
पिबेत् कटूनि मूत्रेण कफ-जे रूक्ष-भोजनः ॥ ४३ ॥
श्लोक 44
कट्फलामलक-व्योषं लिह्यात् तैल-मधु-प्लुतम् ।
व्योष-क्षाराग्नि-चविका-भार्गी-पथ्या-मधूनि वा ॥ ४४ ॥
श्लोक 45
यवैर् यवागूं यमके कणा-धात्री-कृतां पिबेत् ।
भुक्त्वाद्यात् पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥ ४५ ॥
श्लोक 46
शर्करा-क्षौद्र-मिश्राणि शृतानि मधुरैः सह ।
पिबेत् पयांसि यस्योच्चैर् वदतो ऽभिहतः स्वरः ॥ ४६ ॥
श्लोक 47
विचित्रम् अन्नम् अ-रुचौ हितैर् उपहितं हितम् ।
बहिर्-अन्तर्-मृजा चित्त-निर्वाणं हृद्यम् औषधम् ॥ ४७ ॥
श्लोक 48
द्वौ कालौ दन्त-पवनं भक्षयेन् मुख-धावनैः ।
कषायैः क्षालयेद् आस्यं धूमं प्रायोगिकं पिबेत् ॥ ४८ ॥
श्लोक 49
तालीश-चूर्ण-वटकाः स-कर्पूर-सितोपलाः ।
शशाङ्क-किरणाख्याश् च भक्ष्या रुचि-कराः परम् ॥ ४९ ॥
श्लोक 50
भक्ष्या रुचि-करा भृशम् वाताद् अ-रोचके तत्र पिबेच् चूर्णं प्रसन्नया ।
हरेणु-कृष्णा-कृमिजिद्-द्राक्षा-सैन्धव-नागरात् ॥ ५० ॥
श्लोक 51
एला-भार्गी-यव-क्षार-हिङ्गु-युक्ताद् घृतेन वा ।
छर्दयेद् वा वचाम्भोभिः पित्ताच् च गुड-वारिभिः ॥ ५१ ॥
श्लोक 52
लिह्याद् वा शर्करा-सर्पिर्-लवणोत्तम-माक्षिकम् ।
कफाद् वमेन् निम्ब-जलैर् दीप्यकारग्वधोदकम् ॥ ५२ ॥
श्लोक 53
पानं स-मध्व्-अरिष्टाश् च तीक्ष्णाः स-मधु-माधवाः ।
पिबेच् चूर्णं च पूर्वोक्तं हरेण्व्-आद्य्-उष्ण-वारिणा ॥ ५३ ॥
श्लोक 54
एला-त्वङ्-नागकुसुम-तीक्ष्ण-कृष्णा-महौषधम् ।
भाग-वृद्धं क्रमाच् चूर्णं निहन्ति सम-शर्करम् ॥ ५४ ॥
श्लोक 55
प्रसेका-रुचि-हृत्-पार्श्व-कास-श्वास-गलामयान् ।
यवानी-तिन्तिडीकाम्ल-वेतसौषध-दाडिमम् ॥ ५५ ॥
श्लोक 56
कृत्वा कोलं च कर्षांशं सितायाश् च चतुः-पलम् ।
धान्य-सौवर्चलाजाजी-वराङ्गं चार्ध-कार्षिकम् ॥ ५६ ॥
श्लोक 57
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ।
चूर्णम् एतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥ ५७ ॥
श्लोक 58
तच्-चूर्णं दीपनं रुच्यं विबन्ध-कास-हृत्-पार्श्व-प्लीहार्शो-ग्रहणी-गदान् ।
तालीश-पत्त्रं मरिचं नागरं पिप्पली शुभा ॥ ५८ ॥
श्लोक 59
यथोत्तरं भाग-वृद्ध्या त्वग्-एले चार्ध-भागिके ।
तद् रुच्यं दीपनं चूर्णं कणाष्ट-गुण-शर्करम् ॥ ५९ ॥
श्लोक 60
यथोत्तरं भाग-वृद्धास् तद् द्रव्यं दीपनं चूर्णं कास-श्वासा-रुचि-च्छर्दि-प्लीह-हृत्-पार्श्व-शूल-नुत् ।
पाण्डु-ज्वरातिसार-घ्नं मूढ-वातानुलोमनम् ॥ ६० ॥
श्लोक 61
अर्कामृता-क्षार-जले शर्वरीम् उषितैर् यवैः ।
प्रसेके कल्पितान् सक्तून् भक्ष्यांश् चाद्याद् बली वमेत् ॥ ६१ ॥
श्लोक 62
अर्कामृता-क्षीर-जले कटु-तिक्तैस् तथा शूल्यं भक्षयेज् जाङ्गलं पलम् ।
शुष्कांश् च भक्ष्यान् सु-लघूंश् चणकादि-रसानुपः ॥ ६२ ॥
श्लोक 63
श्लेष्मणो ऽति-प्रसेकेन वायुः श्लेष्माणम् अस्यति ।
कफ-प्रसेकं तं विद्वान् स्निग्धोष्णैर् एव निर्जयेत् ॥ ६३ ॥
श्लोक 64
स्निग्धोष्णेनैव निर्जयेत् पीनसे ऽपि क्रमम् इमं वमथौ च प्रयोजयेत् ।
विशेषात् पीनसे ऽभ्यङ्गान् स्नेहान् स्वेदांश् च शीलयेत् ॥ ६४ ॥
श्लोक 65
पीनसे च क्रमम् इमं स्निग्धान् उत्कारिका-पिण्डैः शिरः-पार्श्व-गलादिषु ।
लवणाम्ल-कटूष्णांश् च रसान् स्नेहोपसंहितान् ॥ ६५ ॥
श्लोक 66
शिरो-ऽंस-पार्श्व-शूलेषु यथा-दोष-विधिं चरेत् ।
औदकानूप-पिशितैर् उपनाहाः सु-संस्कृताः ॥ ६६ ॥
श्लोक 67
तत्रेष्टाः स-चतुः-स्नेहा दोष-संसर्ग इष्यते ।
प्रलेपो नत-यष्ट्य्-आह्व-शताह्वा-कुष्ठ-चन्दनैः ॥ ६७ ॥
श्लोक 68
बला-रास्ना-तिलैस् तद्-वत् स-सर्पिर्-मधुकोत्पलैः ।
पुनर्नवा-कृष्णगन्धा-बला-वीरा-विदारिभिः ॥ ६८ ॥
श्लोक 69
नावनं धूम-पानानि स्नेहाश् चौत्तरभक्तिकाः ।
तैलान्य् अभ्यङ्ग-योगीनि वस्ति-कर्म तथा परम् ॥ ६९ ॥
श्लोक 70
शृङ्गाद्यैर् वा यथा-दोषं दुष्टम् एषां हरेद् असृक् ।
प्रदेहः स-घृतैः श्रेष्ठः पद्मकोशीर-चन्दनैः ॥ ७० ॥
श्लोक 71
दूर्वा-मधुक-मञ्जिष्ठा-केसरैर् वा घृताप्लुतैः ।
वटादि-सिद्ध-तैलेन शत-धौतेन सर्पिषा ॥ ७१ ॥
श्लोक 72
अभ्यङ्गः पयसा सेकः शस्तश् च मधुकाम्बुना ।
प्रायेणोपहताग्नि-त्वात् स-पिच्छम् अतिसार्यते ॥ ७२ ॥
श्लोक 73
तस्यातीसार-ग्रहणी-विहितं हितम् औषधम् ।
पुरीषं यत्नतो रक्षेच् छुष्यतो राज-यक्ष्मिणः ॥ ७३ ॥
श्लोक 74
सर्व-धातु-क्षयार्तस्य बलं तस्य हि विड्-बलम् ।
मांसम् एवाश्नतो युक्त्या मार्द्वीकं पिबतो ऽनु च ॥ ७४ ॥
श्लोक 75
अ-विधारित-वेगस्य यक्ष्मा न लभते ऽन्तरम् ।
सुरां स-मण्डां मार्द्वीकम् अरिष्टान् सीधु-माधवान् ॥ ७५ ॥
श्लोक 76
अरिष्टं सीधु-माधवान् यथार्हम् अनु-पानार्थं पिबेन् मांसानि भक्षयन् ।
स्रोतो-विबन्ध-मोक्षार्थं बलौजः-पुष्टये च तत् ॥ ७६ ॥
श्लोक 77
स्नेह-क्षीराम्बु-कोष्ठेषु स्व्-अभ्यक्तम् अवगाहयेत् ।
उत्तीर्णं मिश्रकैः स्नेहैर् भूयो ऽभ्यक्तं सुखैः करैः ॥ ७७ ॥
श्लोक 78
उत्तीर्णं मिश्रक-स्नेहैर् मृद्नीयात् सुखम् आसीनं सुखं चोद्वर्तयेत् परम् ।
जीवन्तीं शतवीर्यां च विकसां स-पुनर्नवाम् ॥ ७८ ॥
श्लोक 79
अश्वगन्धाम् अपामार्गं तर्कारीं मधुकं बलाम् ।
विदारीं सर्षपान् कुष्ठं तण्डुलान् अतसी-फलम् ॥ ७९ ॥
श्लोक 80
माषांस् तिलांश् च किण्वं च सर्वम् एक-त्र चूर्णयेत् ।
यव-चूर्णं त्रि-गुणितं दध्ना युक्तं स-माक्षिकम् ॥ ८० ॥
श्लोक 81
एतद् उद्वर्तनं कार्यं पुष्टि-वर्ण-बल-प्रदम् ।
गौर-सर्षप-कल्केन स्नानीयौषधिभिश् च सः ॥ ८१ ॥
श्लोक 82
एतद् उत्सादनं कार्यं स्नानैर् औषधिभिश् च सः स्नायाद् ऋतु-सुखैस् तोयैर् जीवनीयोपसाधितैः ।
गन्ध-माल्यादिकां भूषाम् अ-लक्ष्मी-नाशनीं भजेत् ॥ ८२ ॥
श्लोक 83
गन्ध-माल्यादिकैर् भूषाम् सुहृदां दर्शनं गीत-वादित्रोत्सव-संश्रुतिः ।
वस्तयः क्षीर-सर्पींषि मद्य-मांस-सु-शील-ता ॥ ८३ ॥
श्लोक
मद्यं मांसं सु-शील-ता दैव-व्यपाश्रयं तत् तद् अथर्वोक्तं च पूजितम् ॥ ८३ऊअब् ॥