अष्टाङ्गहृदयम्/कल्पस्थानम् Adhyaay 5

श्लोक 1

अ-स्निग्ध-स्विन्न-देहस्य गुरु-कोष्ठस्य योजितः ।
शीतो ऽल्प-स्नेह-लवण-द्रव्य-मात्रो घनो ऽपि वा ॥ १ ॥

श्लोक 2

द्रव-मात्रो घनो ऽपि वा वस्तिः संक्षोभ्य तं दोषं दुर्-बल-त्वाद् अ-निर्हरन् ।
करोत्य् अ-योगं तेन स्याद् वात-मूत्र-शकृद्-ग्रहः ॥ २ ॥

श्लोक 3

वस्तिः संस्तभ्य तं दोषं नाभि-वस्ति-रुजा दाहो हृल्-लेपः श्वयथुर् गुदे ।
कण्डूर् गण्डानि वैवर्ण्यम् अ-रतिर् वह्नि-मार्दवम् ॥ ३ ॥

श्लोक 4

नाभि-वस्ति-रुजानाहो कण्डूर् गण्डाति-वैवर्ण्यम् कण्डूर् गण्डाक्षि-वैवर्ण्यम् क्वाथ-द्वयं प्राग्-विहितं मध्य-दोषे ऽतिसारिणि ।
उष्णस्य तस्माद् एकस्य तत्र पानं प्रशस्यते ॥ ४ ॥

श्लोक 5

तत्र पानं विधीयते फल-वर्त्यस् तथा स्वेदाः कालं ज्ञात्वा विरेचनम् ।
बिल्व-मूल-त्रिवृद्-दारु-यव-कोल-कुलत्थ-वान् ॥ ५ ॥

श्लोक 6

सुरादि-मूत्र-वान् वस्तिः स-प्राक्-पेष्यस् तम् आनयेत् ।
युक्तो ऽल्प-वीर्यो दोषाढ्ये रूक्षे क्रूराशये ऽथ-वा ॥ ६ ॥

श्लोक 7

सुरादि-मांस् तत्र वस्तिः वस्तिर् दोषावृतो रुद्ध-मार्गो रुन्ध्यात् समीरणम् ।
स वि-मार्गो ऽनिलः कुर्याद् आध्मानं मर्म-पीडनम् ॥ ७ ॥

श्लोक 8

विदाहं गुद-कोष्ठस्य मुष्क-वङ्क्षण-वेदनाम् ।
रुणद्धि हृदयं शूलैर् इतश् चेतश् च धावति ॥ ८ ॥

श्लोक 9

स्व्-अभ्यक्त-स्विन्न-गात्रस्य तत्र वर्तिं प्रयोजयेत् ।
बिल्वादिश् च निरूहः स्यात् पीलु-सर्षप-मूत्र-वान् ॥ ९ ॥

श्लोक 10

अभ्यक्त-स्विन्न-गात्रस्य स्व्-अभ्यक्त-स्विन्न-गात्राय स्व्-अभ्यक्त-स्विन्न-देहस्य सरलामरदारुभ्यां साधितं चानुवासनम् ।
कुर्वतो वेग-संरोधं पीडितो वाति-मात्रया ॥ १० ॥

श्लोक 11

साधितं वानुवासनम् पीडितश् चाति-मात्रया अ-स्निग्ध-लवणोष्णो वा वस्तिर् अल्पो ऽल्प-भेषजः ।
मृदुर् वा मारुतेनोर्ध्वं विक्षिप्तो मुख-नासिकात् ॥ ११ ॥

श्लोक 12

निरेति मूर्छा-हृल्-लास-तृड्-दाहादीन् प्रवर्तयन् ।
मूर्छा-विकारं दृष्ट्वास्य सिञ्चेच् छीताम्बुना मुखम् ॥ १२ ॥

श्लोक 13

तृड्-दाहादीन् प्रकल्पयेत् तृड्-दाहादीन् प्रवर्तयेत् व्यजेद् आ-क्लम-नाशाच् च प्राणायामं च कारयेत् ।
पृष्ठ-पार्श्वोदरं मृज्यात् करैर् उष्णैर् अधो-मुखम् ॥ १३ ॥

श्लोक 14

वीजेत् क्लम-विनाशाच् च वीजेद् आ-क्लम-नाशाच् च वीज्येद् आ-क्लम-नाशाच् च पृष्ठ-पार्श्वोदरं मृद्यात् केशेषूत्क्षिप्य धुन्वीत भीषयेद् व्याल-दंष्ट्रिभिः ।
शस्त्रोल्का-राज-पुरुषैर् वस्तिर् एति तथा ह्य् अधः ॥ १४ ॥

श्लोक 15

भाययेद् व्याल-दंष्ट्रिभिःव् भापयेद् व्याल-दंष्ट्रिभिः पाणि-वस्त्रैर् गलापीडं कुर्यान् न म्रियते तथा ।
प्राणोदान-निरोधाद् धि सु-प्रसिद्ध-तरायनः ॥ १५ ॥

श्लोक 16

अपानः पवनो वस्तिं तम् आश्व् एवापकर्षति ।
कुष्ठ-क्रमुक-कल्कं च पाययेताम्ल-संयुतम् ॥ १६ ॥

श्लोक 17

तथाश्व् एवापकर्षति कुष्ठ-क्रमुक-कल्कं वा पाययेद् अम्ल-संयुतम् औष्ण्यात् तैक्ष्ण्यात् सर-त्वाच् च वस्तिं सो ऽस्यानुलोमयेत् ।
गो-मूत्रेण त्रिवृत्-पथ्या-कल्कं वाधो-ऽनुलोमनम् ॥ १७ ॥

श्लोक 18

कल्कं चाधो-ऽनुलोमनम् पक्वाशय-स्थिते स्विन्ने निरूहो दाशमूलिकः ।
यव-कोल-कुलत्थैश् च विधेयो मूत्र-साधितैः ॥ १८ ॥

श्लोक 19

विधेयो मूत्र-साधितः वस्तिर् गो-मूत्र-सिद्धैर् वा सामृता-वंश-पल्लवैः ।
पूति-करञ्ज-त्वक्-पत्त्र-शठी-देवाह्व-रोहिषैः ॥ १९ ॥

श्लोक 20

स-तैल-गुड-सिन्धूत्थो विरेकौषध-कल्क-वान् ।
बिल्वादि-पञ्च-मूलेन सिद्धो वस्तिर् उरः-स्थिते ॥ २० ॥

श्लोक 21

शिरः-स्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः ।
वस्तिर् अत्य्-उष्ण-तीक्ष्णाम्ल-घनो ऽति-स्वेदितस्य वा ॥ २१ ॥

श्लोक 22

अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः ।
अति-योग-त्वम् आपन्नो भवेत् कुक्षि-रुजा-करः ॥ २२ ॥

श्लोक 23

विरेचनाति-योगेन स तुल्याकृति-साधनः ।
वस्तिः क्षाराम्ल-तीक्ष्णोष्ण-लवणः पैत्तिकस्य वा ॥ २३ ॥

श्लोक 24

लवणः पैत्तिकस्य च गुदं दहन् लिखन् क्षिण्वन् करोत्य् अस्य परिस्रवम् ।
स विदग्धं स्रवत्य् अस्रं वर्णैः पित्तं च भूरिभिः ॥ २४ ॥

श्लोक 25

करोत्य् अस्र-परिस्रवम् बहु-शश् चाति-वेगेन मोहं गच्छति सो ऽ-सकृत् ।
रक्त-पित्तातिसार-घ्नी क्रिया तत्र प्रशस्यते ॥ २५ ॥

श्लोक 26

बहु-शश् चाति-योगेन मोहं गच्छति चा-सकृत् मोहं गच्छति वा-सकृत् दाहादिषु त्रिवृत्-कल्कं मृद्वीका-वारिणा पिबेत् ।
तद् धि पित्त-शकृद्-वातान् हृत्वा दाहादिकाञ् जयेत् ॥ २६ ॥

श्लोक 27

हत्वा दाहादिकाञ् जयेत् विशुद्धश् च पिबेच् छीतां यवागूं शर्करा-युताम् ।
युञ्ज्याद् वाति-विरिक्तस्य क्षीण-विट्कस्य भोजनम् ॥ २७ ॥

श्लोक 28

यवागूं शर्करान्विताम् माष-यूषेण कुल्माषान् पानं दध्य् अथ-वा सुराम् ।
सिद्धिर् वस्त्य्-आपदाम् एवं स्नेह-वस्तेस् तु वक्ष्यते ॥ २८ ॥

श्लोक 29

स्नेह-वस्तिषु वक्ष्यते स्नेह-कल्पस् तु वक्ष्यते शीतो ऽल्पो वाधिके वाते पित्ते ऽत्य्-उष्णः कफे मृदुः ।
अति-भुक्ते गुरुर् वर्चः-संचये ऽल्प-बलस् तथा ॥ २९ ॥

श्लोक 30

दत्तस् तैर् आवृतः स्नेहो नायात्य् अभिभवाद् अपि ।
स्तम्भोरु-सदनाध्मान-ज्वर-शूलाङ्ग-मर्दनैः ॥ ३० ॥

श्लोक 31

नायात्य् अभिभवाद् अधः पार्श्व-रुग्-वेष्टनैर् विद्याद् वायुना स्नेहम् आवृतम् ।
स्निग्धाम्ल-लवणोष्णैस् तं रास्ना-पीतद्रु-तैलिकैः ॥ ३१ ॥

श्लोक 32

सौवीरक-सुरा-कोल-कुलत्थ-यव-साधितैः ।
निरूहैर् निर्हरेत् सम्यक् स-मूत्रैः पाञ्चमूलिकैः ॥ ३२ ॥

श्लोक 33

सौवीरक-सुराङ्कोल्ल- स-मूत्रैः पाञ्चमौलिकैः ताभ्याम् एव च तैलाभ्यां सायं भुक्ते ऽनुवासयेत् ।
तृड्-दाह-राग-संमोह-वैवर्ण्य-तमक-ज्वरैः ॥ ३३ ॥

श्लोक 34

ताभ्याम् एव तु तैलाभ्यां तैलाभ्याम् एव ताभ्यां वा विद्यात् पित्तावृतं स्वादु-तिक्तैस् तं वस्तिभिर् हरेत् ।
तन्द्रा-शीत-ज्वरालस्य-प्रसेका-रुचि-गौरवैः ॥ ३४ ॥

श्लोक 35

तिक्तैस् तं च विनिर्हरेत् संमूर्छा-ग्लानिभिर् विद्याच् छ्लेष्मणा स्नेहम् आवृतम् ।
कषाय-तिक्त-कटुकैः सुरा-मूत्रोपसाधितैः ॥ ३५ ॥

श्लोक 36

स-मूर्छा-ग्लानिभिर् विद्याच् सुरा-मूत्रैः प्रसाधितैः सुरा-गो-मूत्र-साधितैः फल-तैल-युतैः साम्लैर् वस्तिभिस् तं विनिर्हरेत् ।
छर्दि-मूर्छा-रुचि-ग्लानि-शूल-निद्राङ्ग-मर्दनैः ॥ ३६ ॥

श्लोक 37

शूल-तन्द्राङ्ग-मर्दनैः आम-लिङ्गैः स-दाहैस् तं विद्याद् अत्य्-अशनावृतम् ।
कटूनां लवणानां च क्वाथैश् चूर्णैश् च पाचनम् ॥ ३७ ॥

श्लोक 38

विद्याद् आमावृतं तु तम् मृदुर् विरेकः सर्वं च तत्राम-विहितं हितम् ।
विण्-मूत्रानिल-सङ्गार्ति-गुरु-त्वाध्मान-हृद्-ग्रहैः ॥ ३८ ॥

श्लोक 39

स्नेहं विड्-आवृतं ज्ञात्वा स्नेह-स्वेदैः स-वर्तिभिः ।
श्यामा-बिल्वादि-सिद्धैश् च निरूहैः सानुवासनैः ॥ ३९ ॥

श्लोक 40

निर्हरेद् विधिना सम्यग् उदावर्त-हरेण च ।
अ-भुक्ते शून-पायौ वा पेया-मात्राशितस्य वा ॥ ४० ॥

श्लोक 41

उदावर्त-हरेण वा पेया-मात्राशितस्य च गुदे प्रणिहितः स्नेहो वेगाद् धावत्य् अन्-आवृतः ।
ऊर्ध्वं कायं ततः कण्ठाद् ऊर्ध्वेभ्यः खेभ्य एत्य् अपि ॥ ४१ ॥

श्लोक 42

ऊर्ध्व-कायं ततः कण्ठाद् मूत्र-श्यामा-त्रिवृत्-सिद्धो यव-कोल-कुलत्थ-वान् ।
तत्-सिद्ध-तैलो देयः स्यान् निरूहः सानुवासनः ॥ ४२ ॥

श्लोक 43

कण्ठाद् आगच्छतः स्तम्भ-कण्ठ-ग्रह-विरेचनैः ।
छर्दि-घ्नीभिः क्रियाभिश् च तस्य कुर्यान् निबर्हणम् ॥ ४३ ॥

श्लोक 44

ना-पक्वं प्रणयेत् स्नेहं गुदं स ह्य् उपलिम्पति ।
ततः कुर्यात् स-रुङ्-मोह-कण्डू-शोफान् क्रियात्र च ॥ ४४ ॥

श्लोक 45

ना-पक्वं स्नेहयेत् स्नेहं ततः कुर्यात् स-तृण्-मोह- स कुर्यात् सक्थि-रुङ्-मोह- तीक्ष्णो वस्तिस् तथा तैलम् अर्क-पत्त्र-रसे शृतम् ।
अन्-उच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा ॥ ४५ ॥

श्लोक 46

अन्-उच्छ्वास्य नु बद्धे वा अन्-उच्छ्वास्यानुबद्धे वा दत्ते निःशेष एव च प्रविश्य क्षुभितो वायुः शूल-तोद-करो भवेत् ।
तत्राभ्यङ्गो गुदे स्वेदो वात-घ्नान्य् अशनानि च ॥ ४६ ॥

श्लोक 47

वात-घ्नान्य् अशनान्य् अथ द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा ।
स्यात् कटी-गुद-जङ्घोरु-वस्ति-स्तम्भार्ति-भेदनम् ॥ ४७ ॥

श्लोक 48

भोजनं तत्र वात-घ्नं स्वेदाभ्यङ्गाः स-वस्तयः ।
पीड्यमाने ऽन्तरा मुक्ते गुदे प्रतिहतो ऽनिलः ॥ ४८ ॥

श्लोक 49

उरः-शिरो-रुजं सादम् ऊर्वोश् च जनयेद् बली ।
वस्तिः स्यात् तत्र बिल्वादि-फल-श्यामादि-मूत्र-वान् ॥ ४९ ॥

श्लोक 50

वस्तिः स्यात् तत्र बिल्वादिः फल-श्यामादि-मूत्र-वान् अति-प्रपीडितः कोष्ठे तिष्ठत्य् आयाति वा गलम् ।
तत्र वस्तिर् विरेकश् च गल-पीडादि कर्म च ॥ ५० ॥

श्लोक 51

तिष्ठन्न् आयाति वा गलम् वमनाद्यैर् विशुद्धं च क्षाम-देह-बलानलम् ।
यथाण्डं तरुणं पूर्णं तैल-पात्रं यथा तथा ॥ ५१ ॥

श्लोक 52

कर्मभिर् वमनाद्यैश् च वमनाद्यैर् विशुद्धं तु भिषक् प्रयत्नतो रक्षेत् सर्वस्माद् अपचारतः ।
दद्यान् मधुर-हृद्यानि ततो ऽम्ल-लवणौ रसौ ॥ ५२ ॥

श्लोक 53

सर्वस्माद् अपवादतः स्वादु-तिक्तौ ततो भूयः कषाय-कटुकौ ततः ।
अन्यो-ऽन्य-प्रत्य्-अनीकानां रसानां स्निग्ध-रूक्षयोः ॥ ५३ ॥

श्लोक 54

व्यत्यासाद् उपयोगेन क्रमात् तं प्रकृतिं नयेत् ।
सर्वं-सहः स्थिर-बलो विज्ञेयः प्रकृतिं गतः ॥ ५४ ॥