भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 5 contd.

श्लोक 181

ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम् तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु

श्लोक 182

वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्

श्लोक 183

हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम् मुखप्रसेकशमनं गलामयविनाशनम्

श्लोक 184

नवं तदेव मधुरं कषायानुरसं गुरु बलासजननंप्रायः पत्रशाकगुणं स्मृतम्

श्लोक 185

वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम् पाचनं पित्तजनकमुष्णं कफहरं स्मृतम्

श्लोक 186

पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम् विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम्

श्लोक 187

पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत् मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम्

श्लोक 188

पूगं स्यात् दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत् सरसङ्गुर्वभिष्यन्दि तद् भृशं वह्निनाशनम्

श्लोक 189

खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत् संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च

श्लोक 190

मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा

श्लोक 191

आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत्

श्लोक 192

पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी

श्लोक 193

आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम् तृतीयादनुपातव्यं सुधातुल्यं रसायनम्

श्लोक 194

ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः

श्लोक 195

देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात्

श्लोक 196

ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम् विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम्

श्लोक 197

भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च

श्लोक 198

भुक्त्वोपविशतस्तन्द्रा शयानस्य तु पुष्टता आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः

श्लोक 199

श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम्

श्लोक 200

वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम् तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम्

श्लोक 201

त्रिदोषशमनी षट्वा तूली वातकफापहा भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला

श्लोक 202

भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम् श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा

श्लोक 203

संवाहनं मांसरक्तत्वक्प्रसादकरं परम् प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम्

श्लोक 204

प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा

श्लोक 205

सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा निर्वातमायुषे सेव्यमारोग्याय च सर्वदा

श्लोक 206

पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः विदाही वातलः श्रान्तिकफशोषवतां हितः

श्लोक 207

स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन् सन्निपातं ज्वरं श्वासमामवातं च कोपयेत्

श्लोक 208

दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः

श्लोक 209

पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः

श्लोक 210

उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत् क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः

श्लोक 211

आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत् वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः

श्लोक 212

विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत् अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे

श्लोक 213

व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः तालवृन्तभवो वातस्त्रिदोषशमको मतः

श्लोक 214

वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा

श्लोक 215

पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः

श्लोक 216

दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते

श्लोक 217

उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम् वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा

श्लोक 218

व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान् क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत्

श्लोक 219

दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः न तेषां स्वपतां दोषो जाग्रतां चोपजायते

श्लोक 220

भोजनानन्तरं निद्रा वातं हरति पित्तहृत् कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि

श्लोक 221

शयनं पित्तनाशाय वातनाशाय मर्दनम् वमनं कफनाशाय ज्वरनाशाय लङ्घनम्

श्लोक 222

आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम्

श्लोक 223

शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान् भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति

श्लोक 224

शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत्

श्लोक 225

शयनं चाशनं चाति न भजेन्न द्र वाधिकम् नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम्

श्लोक 226

व्यायामं च व्यवायं च धावनं यानमेव च युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत्

श्लोक 227

अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य

श्लोक 228

ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति

श्लोक 229

अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते

श्लोक 230

प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत्

श्लोक 231

पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्

श्लोक 232

सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम्

श्लोक 233

भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम् विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले

श्लोक 234

आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः

श्लोक 235

आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः

श्लोक 236

यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत् तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम्

श्लोक 237

उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम् लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत्

श्लोक 238

उपानद्धारणं नेत्र्! यमायुष्यं पादरोगहृत् सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम्

श्लोक 239

पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम् अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम्

श्लोक 240

छत्रस्य धारणं वर्षातपवातरजोऽपहम् हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम्

श्लोक 241

सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम् अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्

श्लोक 242

ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा तस्यामारोहणं नॄणां त्रिदोषशमकं मतम्

श्लोक 243

वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः

श्लोक 244

घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम् मेदोवर्णकफघ्नं च हितं तद्वलिनां परम्

श्लोक 245

आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान् दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति

श्लोक 246

वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी भयावहा मोहकरी कुहेलि कफवातला

श्लोक 247

अग्निर्वातकफस्तम्भशीतवेपथुनाशनः आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः

श्लोक 248

सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम् शिरोगौरवकृच्चापि वातपित्तं च कोपयेत्

श्लोक 249

मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत्

श्लोक 250

सेवेत देवभूदेववृद्धवैद्यनृपातिथीन् विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि

श्लोक 251

गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः पादप्रसारणादीनि तत्र नैव समाचरेत्

श्लोक 252

अपकारपरेऽपि स्यादुपकारपरः पुमान् आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत्

श्लोक 253

न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम् प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः

श्लोक 254

नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम्

श्लोक 255

काले हितं मितं सत्यं संवादि मधुरं वदेत् भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम्

श्लोक 256

न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा नामुद्गसूपं नाक्षौद्रं न चाप्यघृतशर्करम्

श्लोक 257

जनस्याशयमालक्ष्य यो यथा परितुष्यति तं तथैवानुवर्तेत पराराधनपण्डितः

श्लोक 258

नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु

श्लोक 259

वेगान्न धारयेज्जातु मनोवेगान्विधारयेत् न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत्

श्लोक 260

वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक्

श्लोक 261

नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम्

श्लोक 262

नासंवृतमुखः कुर्यात्सभायां च विचक्षणः कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा

श्लोक 263

नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित् नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम्

श्लोक 264

सम्मार्जनीरजो नैव देहे दद्यात्कदाचन न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत्

श्लोक 265

नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम् सर्वथा न समीक्षेत न जले प्रतिबिम्बितम्

श्लोक 266

नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित्

श्लोक 267

नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत् गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च

श्लोक 268

न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित्

श्लोक 269

प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत्