भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 5 contd.

श्लोक 270

स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत्

श्लोक 271

विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत् रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः

श्लोक 272

न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च नैको देवालये नैव रात्रौ तरुतलेऽपि च

श्लोक 273

एवं दिनानि गमयेत्सदाचारपरः सदा ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः

श्लोक 274

इत्याचारं समासेन भाषितं यः समाचरेत् स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः

श्लोक 275

एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः आहारं मैथुनं निद्रा ! संपाठं गतिमध्वनि

श्लोक 276

भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः निद्र या निःस्वता पाठादायुर्हानिर्गतेर्भयम्

श्लोक 277

ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत् ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम्

श्लोक 278

तमो भयावहं मोहदिङ्मोहजनकं भवेत् पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत्

श्लोक 279

रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत्

श्लोक 280

शरीरे जायते नित्यं देहिनः सुरतस्पृहा अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः

श्लोक 281

बालेति गीयते नारी यावद्वर्षाणि षोडश ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि

श्लोक 282

तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता

श्लोक 283

निदाघशरदोर्वाला हिता विषयिणां मता तरुणी शीतसमये प्रौढा वर्षावसन्तयोः

श्लोक 284

नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम् तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम्

श्लोक 285

सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम् घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट्

श्लोक 286

पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्

श्लोक 287

वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते

श्लोक 288

आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः

श्लोक 289

सेवेत कामतः कामं बलाद्वाजीकृतो हिमे प्रकामं तु निषेवेत मैथुनं शिशिरागमे

श्लोक 290

त्र्! यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः

श्लोक 291

त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद् बुधः

श्लोक 292

शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः

श्लोक 293

उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च

श्लोक 294

विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते

श्लोक 295

देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे श्रूयमाणे व्यथाहेतुवचने न रमेत ना

श्लोक 296

स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः

श्लोक 297

ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे

श्लोक 298

अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम्

श्लोक 299

भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम् अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम् सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः

श्लोक 300

रजस्वलामकामां च मलिनामप्रियां तथा

श्लोक 301

वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम्

श्लोक 302

सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया

श्लोक 303

रजस्वलां गतवतो नरस्यासंयतात्मनः दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्

श्लोक 304

लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः

श्लोक 305

गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः

श्लोक 306

हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत्

श्लोक 307

क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति

श्लोक 308

व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः

श्लोक 309

तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः

श्लोक 310

उच्चारिते मूत्रिते च रेतसश्च विधारणे उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः

श्लोक 311

सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम् शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन

श्लोक 312

स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी

श्लोक 313

शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः

श्लोक 314

रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित् निद्रा तु सेविताकाले धातुसाम्यमतन्द्रि ताम्

श्लोक 315

पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि

श्लोक 316

यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम् स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति

श्लोक 317

सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम्

श्लोक 318

अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः

श्लोक 319

विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः

श्लोक 320

पातव्यं नासया नीरं प्रसृतित्रयमात्रया

श्लोक 321

व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम् रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम्

श्लोक 322

स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत्

श्लोक 323

चयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात्

श्लोक 324

ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत्

श्लोक 325

धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः

श्लोक 326

शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः माघादिमासयुग्मं स्युरृतवः षट् क्रमादमी

श्लोक 327

गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू

श्लोक 328

तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू

श्लोक 329

उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम् आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम्

श्लोक 330

हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत् शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः

श्लोक 331

वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः

श्लोक 332

वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा

श्लोक 333

चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु

श्लोक 334

चीयते लघुरूक्षाभिरोषधीभिः समीरणः तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति

श्लोक 335

अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम् पित्तं याति चयं कोपं न तु कालस्य शैत्यतः

श्लोक 336

चीयते स्निग्धशीताभिरुदकौषधिभिः कफः तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति

श्लोक 337

हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते स वायुः शिशिरे कोपं यात्येवोपचितः कफः

श्लोक 338

हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति

श्लोक 339

इति कालस्वभावोऽयमाहारादिवशात्पुनः चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः

श्लोक 340

चयकोपमशमान्दोषा विहाराहारसेवनैः समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम्

श्लोक 341

स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता पीतावभासता वह्निमन्दता चाङ्गगौरवम्

श्लोक 342

आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम् सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम्

श्लोक 343

ते तूत्तरासु गतिषु भवन्ति बलवत्तराः

श्लोक 344

वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः रसाः सेव्या विशेषेण पवनस्योपशान्तये

श्लोक 345

भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः

श्लोक 346

स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम् शालयो यवगोधूमा जलं कौपं जलं च्युतम्

श्लोक 347

न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम् नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम्

श्लोक 348

सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम् गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः

श्लोक 349

दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम् एतान्यत्र घनावसानसमयेपथ्यानिऐ! मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम्

श्लोक 350

इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः

श्लोक 351

प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान् गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान् कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके

श्लोक 352

शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम् विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः

श्लोक 353

वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम् गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु

श्लोक 354

मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम् अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत्

श्लोक 355

स्वादुस्निग्धहिमं लघु द्र वमयं द्र व्यं रसालां सितां-सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम् शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान्

श्लोक 356

ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः दोषानृतुकृतान्नैव लभते स कदाचन