कर्पूरादिवर्गः

श्लोक 1

अथ कर्पूरादिवर्गः पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः घनसारश्चन्द्र संज्ञो हिमनामाऽपि स स्मृतः

श्लोक 2

कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः

श्लोक 3

दाहतृष्णाऽस्यवैरस्यमेदोदौर्गन्ध्यनाशनः कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम्

श्लोक 4

चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः

श्लोक 5

मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता

श्लोक 6

कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता

श्लोक 7

कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता

श्लोक 8

कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत्

श्लोक 9

लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः चक्षुष्या छेदिनी श्लेष्मतृष्णाबस्त्यास्यरोगहृत्

श्लोक 10

गन्धमार्जारवीर्यन्तु वीर्यकृत्कफवातहृत् कण्डूकुष्ठहरं नेत्र्! यं सुगन्धं स्वेदगन्धनुत्

श्लोक 11

श्रीखण्डं चन्दनं न स्त्री भद्र श्रीस्तैलपर्णिकः गन्धसारो मलजयस्तथा चन्द्र द्युतिश्च सः

श्लोक 12

स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते

श्लोक 13

चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत्

श्लोक 14

कालीयकं तु कालीयं पीताभं हरिचन्दनम्

श्लोक 15

हरिप्रियं कालसारं तथा कालानुसार्यकम् कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम्

श्लोक 16

रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्र चन्दनम् तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम्

श्लोक 17

रक्तं शीतं गुरु स्वादुच्छर्दितृष्णाऽस्रपित्तहृत् तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम्

श्लोक 18

पतङ्गं रक्तसारञ्च सुरङ्गं रञ्जनं तथा पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम्

श्लोक 19

पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनम्

श्लोक 20

चन्दनानि तु सर्वाणि सदृशानि रसादिभिः गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः

श्लोक 21

अगुरु प्रवरं लोहं राजार्हं योगजं तथा वंशिकं कृमिजं वाऽपि कृमिजग्धमनार्यकम्

श्लोक 22

अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम् लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत्

श्लोक 23

कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः

श्लोक 24

देवदारु स्मृतं दारुभद्रं दार्विन्द्र दारु च मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः

श्लोक 25

देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च विबन्धाध्मानशोथामतन्द्रा हिक्काज्वरास्रजित् प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत्

श्लोक 26

सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः सरलो मधुरस्तिक्तो कटुपाकरसो लघुः

श्लोक 27

स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः कफानिलस्वेददाहकासमूर्छाव्रणापहः

श्लोक 28

कालानुसार्यं तगरं कुटिलं नहुषं नतम् अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम्

श्लोक 29

तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् विषापस्मारशूलाक्षिरोगदोषत्रयापहम्

श्लोक 30

पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम्
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु

श्लोक 31

वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत्

श्लोक 32

गुग्गुलर्देवधूपश्च जटायुः कौशिकः पुरः कुम्भोलूखलकं क्लीबे महिषाक्षः पलङ्कषः

श्लोक 33

महिषाक्षो महानीलः कुमुदः पद्म इत्यपि हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः

श्लोक 34

भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः महानीलस्तु विज्ञेयः स्वनामसमलक्षणः

श्लोक 35

कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसन्निभः हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम्

श्लोक 36

महिषाक्षो महानीलो गजेन्द्रा णां हितावुभौ हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ

श्लोक 37

विशेषेण मनुष्याणां कनकः परिकीर्त्तितः कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि

श्लोक 38

गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः कषायः कटुकः पाके कटू रूक्षो लघुः परः

श्लोक 39

भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः

श्लोक 40

मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् पिडकाग्रन्थिशोफार्श्गण्डमालाकृमीञ्जयेत्

श्लोक 41

माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा तिक्तत्वाद् कफजित्तेन गुग्गुलुः सर्वदोषहा

श्लोक 42

स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः

श्लोक 43

स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः

श्लोक 44

शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः

श्लोक 45

अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम् मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः

श्लोक 46

श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः

श्लोक 47

पित्तलो वातमूर्द्धाक्षिस्वररोगकफापहः रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत्

श्लोक 48

रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः देवधूपो यक्षधूपस्तथा सर्वरसश्च सः

श्लोक 49

रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः

श्लोक 50

कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि

श्लोक 51

कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान्

श्लोक 52

सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः कपितैलश्च संख्यातस्तथा च कपिनामकः

श्लोक 53

सिह्लकःकटुकःस्वादुः स्निग्धोष्णःशुक्रकान्तिकृत् वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः

श्लोक 54

जातीफलं जातिकोशं मालतीफलमित्यपि जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम्

श्लोक 55

निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः कृमिकासवमिश्वासशोषपीनसहृद्रुजः

श्लोक 56

जातीफलस्य त्वक् प्रोक्ता जातीपत्री भिषग्वरैः

श्लोक 57

जातीपत्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् कफकासवमिश्वासतृष्णाकृमिविषापहा

श्लोक 58

लवङ्गं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम्

श्लोक 59

दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् तृष्णां छर्दिं तथाऽध्मानं शूलमाशु विनाशयेत् कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम्

श्लोक 60

एला स्थूला च बहुला पृथ्वीका त्रिपुटाऽपि च

श्लोक 61

भद्रै ला बृहदेला च चन्द्र बाला च निष्कुटिः स्थूलैला कटुका पाके रसे चानलकृल्लघुः

श्लोक 62

रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषाऽपहा हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत्

श्लोक 63

सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्रा विडी त्रुटिः एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् रसे तु कटुका शीता लघ्वी वातहरी मता

श्लोक 64

त्वक्पत्रञ्च वराङ्गं स्याद् भृङ्गं चोचं तथोत्कटम् त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च रूक्षकम्

श्लोक 65

पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् हृद्बस्तिरोगवातार्शः कृमिपीनसशुक्रहृत्

श्लोक 66

त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता