श्लोक 1
स्वर्णं रूप्यञ्च ताम्रं च रङ्गं यशदमेव च सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवः
श्लोक 2
वली पलित खालित्य कार्श्याबल्य जरामयान् निवार्य देहं दधति नृणां तद्धातवो मताः
श्लोक 3
पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः
श्लोक 4
कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात्
कृत्रिमञ्चापि भवति तद्र सेन्द्र स्य वेधतः
श्लोक 5
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्
श्लोक 6
तपनीयं च गाङ्गेयं कलधौतञ्च काञ्चनम् चामीकरं शातकुम्भं तथा कार्त्तस्वरं च तत्
श्लोक 7
जाम्बूनदं जातरूपं महारजतमित्यपि
श्लोक 8
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् तारशुल्वोज्झितं स्निग्धं कोमलं गुरु हेम सत्
श्लोक 9
तच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघु स्फुटम्
श्लोक 10
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम्
श्लोक 11
पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित्
श्लोक 12
बलं सवीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये असौख्यकृच्चापि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात्
श्लोक 13
असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् करोति रोगान् मृत्युं च तद्धन्याद्यत्नतस्ततः
श्लोक 14
त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः निरीक्षयामास शिवः क्रोधेन परिपूरितः
श्लोक 15
अग्निस्तत्कालमपतत्तस्यकस्माद्विलोचनात् ततो रुद्र समभवद् वैश्वानर इव ज्वलन्
श्लोक 16
द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात् तस्माद्र जतमुत्पन्नमुक्तकर्मसु योजयेत्
श्लोक 17
कृत्रिमं च भवेत्तद्धि वङ्गादिरसयोगतः
श्लोक 18
रूप्यं तु रजतं तारं चन्द्र कान्ति सितप्रभम्
श्लोक 19
गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम्
वर्णाढ्यं चन्द्र वत्स्वच्छं रूप्यं नवगुणं शुभम्
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम्
श्लोक 20
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम्
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिराद् ध्रुवम्
श्लोक 21
तारं शरीरस्य करोति तापं विध्वंसनं यच्छति शुक्रनाशम् वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान्पोषयति ह्यशुद्धम्
श्लोक 22
शुक्रं यत् कार्त्तिकेयस्य पतितं धरणीतले तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः
श्लोक 23
ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम् रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम्
श्लोक 24
जपाकुसुमसङ्काशं स्निग्धं मृदु घनक्षमम् लौहनागोज्झितं ताम्रं मारणाय प्रशस्यते
श्लोक 25
कृष्णं रूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् लौहनागयुतञ्चेति शुल्बं दुष्टं प्रकीर्त्तितम्
श्लोक 26
ताम्रं कषायं मधुरं च तिक्तमम्लं च पाके कटु सारकं च पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनञ्च
श्लोक 27
पाण्डूदरार्शोज्व्रकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम् शोथं कृमिं शूलमपाकरोति प्राहुः परे बृंहणमल्पमेतत्
श्लोक 28
एको दोषो विषे ताम्रेत्वसम्यङ्मारितेऽष्टते दाहः स्वेदोऽरुचिर्मूर्च्छाक्लेदो रेको वमिर्भ्रमः
श्लोक 29
रङ्गं वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि क्षुरकं मिश्रकं चापि द्विविधं वङ्ग मुच्यते
श्लोक 30
उत्तमं क्षुरकं तत्र मिश्रकं त्ववरं मतम्
श्लोक 31
रङ्गं लघु सरं रूक्षमुष्णं मेहकफक्रिमीन् निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं मनाक्
श्लोक 32
सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम्
श्लोक 33
यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम्
यशदं तुवरं तिक्तं शीतलं कफपित्तहृत्
चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत्
श्लोक 34
दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तुमुमोच यत् वीर्यं जातस्ततो नागः सर्वरोगापहा नृणाम्
श्लोक 35
सीसं ब्रध्नं च वप्रं च योगेष्टं नागनामकम्
श्लोक 36
सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम्
श्लोक 37
नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति
बह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः
श्लोक 38
पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान् कण्डूप्रमेहानिलसादशोथभगन्दरादीन् कुरुतः प्रयुक्तौ
श्लोक 39
पुरा लोमिनदैत्यानां निहतानां सुरैर्युधि
उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी
श्लोक 40
गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु
श्लोक 41
लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्
श्लोक 42
कफं पित्तं गरं शूलं शोथार्शः प्लीहपाण्डुताः मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि
श्लोक 43
षण्ढत्वकुष्ठामयमृत्युदं भवेद् हृद्रो गशूलौ कुरुतेऽश्मरीञ्च नानारुजानाञ्च तथा प्रकोपं करोति हृल्लासमशुद्धलोहम्
श्लोक 44
जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम् पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति
श्लोक 45
कूष्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा मद्यम्लरसं चापि त्यजेल्लोहस्य सेवकः
श्लोक 46
क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते
लौहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते
लौहं साराह्वयं हन्याद् ग्रहणीमतिसारकम्
श्लोक 47
अर्द्धं सर्वाङ्गजं वातं शूलं च परिणामजम्
छर्दिं च पीनसं पित्तं श्वासं कासं व्यपोहति
श्लोक 48
यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः
तप्तं दुग्धं भवति शिखराकारकंनैति भूमिं
कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहंतदुक्तम्
श्लोक 49
गुल्मोदरार्शःशूलाममामवातं भगन्दरम् कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत्
श्लोक 50
प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम्
श्लोक 51
सर्वान् रोगान् विजयते कान्तलोहं न संशयः बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्नि विवर्द्धयेत्
श्लोक 52
ध्मायमानस्य लोहस्य मलं मण्डूर मुच्यते
लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते
यल्लोहं यद्गुणंप्रोक्तं तत्किट्टमपि तद्गुणम्
श्लोक 53
सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकं तुत्थं कांस्यं च रीतिश्च सिन्दूरञ्च शिलाजतु
श्लोक 54
उपधातुषु सर्वेषु तत्तद्धातुगुणा अपि सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः
श्लोक 55
स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम्
श्लोक 56
ताप्यं माक्षिकधातुश्च मधुधातुश्च स स्मृतः किञ्चित्सुवर्णं साहित्यात्स्वर्णमाक्षिकमीरितम्
श्लोक 57
उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम् तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम्
श्लोक 58
किन्तु तस्यानुकल्पत्वात्किञ्चिदूनगुणास्ततः न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके
श्लोक 59
द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम्
श्लोक 60
चक्षुष्यं बस्तिरुक्कुष्ठपाण्डुमेहविषोदरान् अर्शः शोथं विषं कण्डूं त्रिदोषमपि नाशयेत्
श्लोक 61
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान् तथैव मालां व्रणपूर्विकां च करोति तापीजमशुद्धमेतत्
श्लोक 62
तारमाक्षिकमन्यत्तु तद्भवेद्र जतोपमम् किञ्चिद्र जतसाहित्यात्तारमाक्षिकमीरितम्
श्लोक 63
अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः न केवलं रूप्यगुणा यतः स्यात्तारमाक्षिकम्
श्लोक 64
स्वादु पाके रसे किञ्चित्तिक्तं वृष्यं रसायनम्
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरान्
अर्शः शोथं क्षयङ्कण्डूं त्रिदोषमपि नाशयेत्
श्लोक 65
मन्दानलत्वं बलहानिमुग्रां विष्टग्भितां नेत्रगदान्सकुष्ठान् तथैव मालां व्रणपूर्विकाञ्च करोति तापीजमिदञ्च तद्वत्
श्लोक 66
तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत्
श्लोक 67
किञ्चित्ताम्रगुणं तस्माद्वक्ष्यमाणगुणं च तत् तुत्थकं कटुकं क्षारं कषायं वामकं लघु
श्लोक 68
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम्
श्लोक 69
ताम्रत्रपुजमाख्यातं कांस्यं घोषं च कंसकम् उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः