श्लोक 154
अभावे त्वेतयोर्वैद्यः प्रक्षिपेद्र क्तचन्दनम् रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः
श्लोक 155
मुस्ता चातिविषाभावे शिवाऽभावे शिवा मता अभावे नागपुष्पस्य पद्मकेशरमिष्यते
श्लोक 156
मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति दरीविदार्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत्
श्लोक 157
वाराह्याश्च तथाऽभावे चर्मकारालुको मतः वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः
श्लोक 158
वारीहीकन्द एवान्यश्चर्मकारालुको मतः अनूपसम्भवे देशे वराह इव लोमवान्
श्लोक 159
भल्लातकासहत्वे तु रक्तचन्दनमिष्यते भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः
श्लोक 160
सुवर्णाभावतः स्वर्णमाक्षिकं प्रक्षिपेद् बुधः श्वेतं तु माक्षिकं ज्ञेयं बुधै रजतवद् ध्रुवम्
श्लोक 161
माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम् सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते
श्लोक 162
तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः
श्लोक 163
अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः
श्लोक 164
मत्स्यण्ड्यभावतो दद्युर्भिषजः सितशर्कराम् असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते
श्लोक 165
क्षीराभावे रसो मौद्गो मासूरो वा प्रदीयते अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च
श्लोक 166
योज्यमेकतराभावे परं वैद्येन जानता रसवीर्यविपाकाद्यैः समं द्र व्यं विचिन्त्य च
श्लोक 167
युञ्ज्यात्तद्विधमन्यच्च द्र व्याणां तु रसादिवित् योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः
श्लोक 168
यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते व्याधेरयुक्तं यद्द्र व्यं गणोक्तमपि तत्त्यजेत् अनुक्तमपि युक्तं यद्योजयेत्तद्र सादिवित्
श्लोक 169
द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च पदार्थाः पञ्च तिष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च
श्लोक 170
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः
श्लोक 171
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते
श्लोक 172
ये रसा वातशमना भवन्ति यदि तेषु वै रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम्
श्लोक 173
ये रसा पित्तशमना भवन्ति यदि तेषु वै तीक्ष्णोष्णलघुताश्चैव नैते तत्कर्मकारिणः
श्लोक 174
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै स्नेहगौरवशैत्यानि न ते हन्युः कफं तदा
श्लोक 175
मधुरो हि रसः शीतो धातुस्तन्यबलप्रदः चक्षुष्यो वातपित्तघ्नः कुर्यात्स्थौल्यमलकृमीन्
श्लोक 176
विषघ्नः पिच्छिलश्चापि स्निग्धः प्रीत्यायुषोर्हितः बालबृद्धक्षतक्षीणवर्णकेशेन्द्रि यौजसाम्
श्लोक 177
प्रशस्तो बृंहणः कण्ठ्यो गुरुः सन्धानकृन्मतः
श्लोक 178
सोऽतियुक्तो ज्वरश्वासगलगण्डार्बुदकृमीन् स्थौल्याग्निमान्द्यमेहांश्च कुर्यान्मेदःकफामयान्
श्लोक 179
रसोऽम्ल पाचनो रुच्यः पित्तश्लेष्मास्रदो लघुः लेखितोष्णो बहिः शीतः क्लेदनः पवनापहः
श्लोक 180
स्निग्धस्तीक्ष्णः सरः शुक्रविबन्धानाहदृष्टिहा हर्षणो रोमदन्तानामक्षिभ्रूविनिकोचनः
श्लोक 181
सोऽतियुक्तो भ्रमं कुर्यात्तृड्दाहतिमिरज्वरान् कण्डूपाण्डुत्ववीसर्पशोथविस्फोटकुष्ठकृत्
श्लोक 182
लवणः शोधनो रुच्यः पाचनः कफपित्तदः पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः बलघ्न आस्यजलदः कपोलगलदाहकृत्
श्लोक 183
सोऽति युक्तो ऽक्षिपाकास्रपित्त कोठक्षतादिकृत् वलीपलितखालित्यकुष्ठवीसर्पतृट्प्रदः
श्लोक 184
कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत् श्लेष्महृल्लघुराग्नेयः कृमिकण्डूविषापहः
श्लोक 185
शुक्रस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः अश्रुदो नासिकाऽस्याक्षिजिह्वाऽग्रोद्वेजको मतः
श्लोक 186
दीपनः पाचनो रुच्यो नासिकाशोषणो भृशम् क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः
श्लोक 187
स्रोतः प्रकाशको रूक्षः मेध्यो वर्चोविबन्धकृत्
श्लोक 188
सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत् कण्ठादिपीडामूर्च्छाऽन्तर्दाहदो बलकान्तिहृत्
श्लोक 189
तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफाञ्जयेत् कृमिकुष्ठविषोत्क्लेददाहरक्तगदापहः
श्लोक 190
रुच्यः स्वयमरोचिष्णुः कण्ठस्तन्यविशोधनः वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः
श्लोक 191
सोऽतियुक्तः शिरःशूलमन्यास्तम्भश्रमार्त्तिकृत् कम्पमूर्च्छातृषाकारी बलशुक्रक्षयप्रदः
श्लोक 192
कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा लेखनः पीडनः सौम्यः शोषणो वातकोपनः
श्लोक 193
कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः त्वक्प्रसाधन आमस्य स्तम्भनो विशदो मतः जिह्वायां जाड्यकृत्कण्ठस्रोतसां च विबन्धकृत्
श्लोक 194
सोऽतियुक्तो ग्रहाध्मानहृत्पीडाक्षेपणादिकृत्
श्लोक 195
मधुरं श्लेष्मलंप्रायो जीर्णशालियवादृते मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात्
श्लोक 196
अम्लं पित्तकरं प्रायो विना धात्रीं च दाडिमीम् लवणं प्रायशो द्वेषि नेत्रयोः सैन्धवं विना
श्लोक 197
प्रायः कटु तथा तिक्तमवृष्यं वातकोपनम् शुण्ठी कृष्णारसोनानि पटोलममृतां विना
श्लोक 198
पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना
श्लोक 199
सामान्येनात्र निर्दिष्टा गुणाः षड्रससम्भवाः रसानां योगतस्तु स्यादन्य एव गुणोदयः
श्लोक 200
संयोगाद्विषतां याति सममाज्येन माक्षिंकम् अमृतत्वं विषं याति सर्पदष्टस्य वै यथा
श्लोक 201
लघुर्गुरुस्तथा स्निग्धो रूक्षस्तीक्ष्ण इति क्रमात् नभोभूवारिवातानां वह्नेरेते गुणाःस्मृताः
श्लोक 202
लघु पथ्यं परं प्रोक्तं कफघ्नं शीघ्रपाकि च
श्लोक 203
गरु वातहरं पुष्टिश्लेष्मकृच्चिरपाकि च स्निग्धं वातहरं श्लेष्मकारि वृष्यं बलावहम् रूक्षं समीरणकरं परं कफहरं मतम्
श्लोक 204
तीक्ष्णं पित्तकरं प्रायो लेखनं कफवातहृत् सुश्रुते तु गुणा एते विंशतिस्तान्ब्रुवे शृणु
श्लोक 205
गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ स्थूलः सूक्ष्मो द्र वः शुष्क आशुर्मन्दः स्मृता गुणाः
श्लोक 206
श्लक्ष्णः स्नेहं विनाऽपि स्यात्कठिनोऽपि हि चिक्कणः
श्लोक 207
स्थिरो वातमलस्तम्भी सरस्तेषां प्रवर्तकः पिच्छिलस्तन्तुलो बल्यः सन्धानः श्लेष्मलो गुरुः
श्लोक 208
क्लेदच्छेदकरः ख्यातो विशदो व्रणरोपणः शीतस्तु ह्लादनःस्तम्भी मूर्च्छातृटस्वेददाहनुत् उष्णो भवति शीतस्य विपरीतश्च पाचनः
श्लोक 209
स्थूलः स्थौल्यकरो देहे स्रोतसामवरोधकृत्
श्लोक 210
देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते द्र वः क्लेदकरो व्यापी शुष्कस्तद्विपरीतकः
श्लोक 211
आशुराशुकरो देहे धावत्यम्भसि तैलवत् मन्दः सकलकार्येषु शिथिलोऽल्पोऽपि कथ्यते
श्लोक 212
पचेन्नामं वह्निकृद्यद्दीपनं तद्यथा मिसिः
श्लोक 213
पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम् नागकेशरवद्विद्याच्चित्रोदीपनपाचनः
श्लोक 214
नशोधयति यद्दोषान्समान्नोदीरयत्यपि समीकरोति विषमाञ्छमनं तद्यथाऽमृता
श्लोक 215
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत् तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी
श्लोक 216
पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम् नयत्यधः स्रंसनं तद्यथा स्यात्कृतमालकम्
श्लोक 217
मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः भित्वाऽध पातयति यद्भेदनं कटुकी यथा
श्लोक 218
विपक्वं यदपक्वं वा मलादि द्र वतां नयेत् रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा
श्लोक 219
अपक्वं पित्तश्लेष्मान्नं बलादूर्ध्वं नयेत्तु यत् वमनं तद्धि विज्ञेयं मदनस्य फलं यथा
श्लोक 220
स्थानाद्वहिर्नयेदूर्ध्वमधो वा मलसञ्चयम् देहसंशोधनं तत्स्याद् देवदालीफलं यथा
श्लोक 221
दीपनं पाचनं यत्स्यादुष्णत्वाद्द्र वशोषकम् ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली
श्लोक 222
रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत् वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ
श्लोक 223
श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्वलात् छेदनं तद्यथा क्षारा मरिचानि शिलाजतु
श्लोक 224
धातून्मलान् वा देहस्य विशोध्योल्लेखयेच्च यत् लेखनं तद्यथा क्षौद्रं नीरमुष्णं वचा यवाः
श्लोक 225
यस्माद् द्र व्याद्भवेत्स्त्रीषु हर्षो वाजीकरं हि तत् यथाऽश्वगन्धामुसली शर्करा च शतावरी
श्लोक 226
यस्माच्छुक्रस्य वृद्धिः स्याच्छुक्रलं हि तदुच्यते यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम्
श्लोक 227
दुग्धं माषाश्च भल्लातफलमज्जामलानि च एतानि जनकानि स्यू रेचकानि च रेतसः
श्लोक 228
प्रवर्तिनी स्त्री शुक्रस्य रेचनं बृहतीफलम् जातीफलं स्तम्भकं स्यात्कालिङ्गं क्षयकारि च
श्लोक 229
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम् यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु
श्लोक 230
पूर्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति व्यवायि तद् यथा भङ्गा फेनञ्चाहि समुद्भवम्
श्लोक 231
सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत् विशोष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वौ
श्लोक 232
बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते तमोगुणप्रधानञ्च यथा मद्यं सुराऽदिकम्
श्लोक 233
व्यवायि च विकाशि स्याच्छ्लेष्मच्छेदि मदावहम् आग्नेयं जीवितहरं योगवाहि स्मृतं विषम्
श्लोक 234
निजवीर्य्येण यद् द्र व्यं स्रोतोभ्यो दोषसञ्चयम् निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा
श्लोक 235
पैच्छिल्याद्गौरवाद् द्र व्यं रुद्ध्वा रसवहाः शिराः धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि
श्लोक 236
विदाहि द्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम् हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात्
श्लोक 237
गृह्णाति योगवाहि द्र व्यं संसर्गिवस्तुगुणान् पच्यमानं यथैतन्मधुजलतैलाज्यसूतलोहादिः
श्लोक 238
उष्णशीतगुणोत्कर्षाद् बुधैवीर्यं द्विधा स्मृतम् यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम्
श्लोक 239
उष्णं वातकफौ हन्यात् पित्तं तु तनुते जराम् शीतं वातकफातङ्कान्कुरुते पित्तहृत्परम्
श्लोक 240
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकताम् शमञ्च वातकफयो करोति शिशिरं पुनः ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः
श्लोक 241
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् रसानां परिणामान्ते स विपाक इति स्मृतः
श्लोक 242
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः कटुतिक्तकषायाणां पाकः स्यात्प्रायशः कटुः
श्लोक 243
श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहः
श्लोक 244
कटुः करोति पवनं कफं पित्तञ्च नाशयेत् विशेष एवं रसतो विपाकानां निदर्शितः
श्लोक 245
रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम् दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी
श्लोक 246
मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः
श्लोक 247
समाऽपि कुरुते दोषत्रितयस्य विनाशनम्
श्लोक 248
क्वचित्तुकेवलं द्र व्यं कर्म कुर्यात्प्रभावतः
ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा
श्लोक 249
विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति