श्लोक 1
अथात अन्नस्वरूपविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः।
शारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः॥
श्लोक 3
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ।
काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः॥
श्लोक 4
लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः।
पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः॥
श्लोक 5
स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः।
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः॥
श्लोक 6
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा।
महांस्तं चानु कलमस्तं चाप्यनु ततः परे॥
श्लोक 7
यवका हायनाः पांसुवाप्यनैषधकादयः।
स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः॥
श्लोक 8
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः।
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः॥
श्लोक 9
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः।
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः॥
श्लोक 10
कुक्कुटाण्डकलाबाक्षपारावतकसूकराः।
वरकोद्दालकोज्जालचीनशारददर्दुराः॥
श्लोक 11
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः।
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः॥
श्लोक 12
बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः।
कङ्गुकोद्रवजूर्णाह्वगदीवरुणपादिकाः॥
श्लोक 13
श्यामाकतोयश्यामाकहस्तिश्यामाकशिल्बिकाः।
शिशिरोद्दालनीवारवरूकबरकोत्कटाः॥
श्लोक 14
मधूलिकान्तनिर्गण्डीवेणुपर्णीप्रशान्तिकाः।
गवेथुकाण्डलौहित्यतोयपर्णीमुकुन्दराः॥
श्लोक 15
कफपित्तहरा रूक्साः कषायमधुरा हिमाः।
वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः॥
श्लोक 16
भग्नसन्धानकृत्तत्र प्रियङ्गुबृंहणी गुरुः।
कोरदूषः परं ग्राई स्पर्शे शीतो विषापहः॥
श्लोक 17
उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः।
शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका॥
श्लोक 18
रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः।
वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत्॥
श्लोक 19
पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्।
गुणैर्न्यूनतरा ज्ञेया यवादनुयवाह्वयाः॥
श्लोक 20
ऊष्णाः सरा वेणुयवाः कषाया वातपित्तलाः।
वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा॥
श्लोक 21
सन्धानकरी मधुरो गोधूमः स्थैर्यकृत् सरः।
पथ्या नन्दीमुखी शीता कषाया मधुरा लघुः॥
इति शूकधान्यवर्गः।
श्लोक 22
शिम्बिजा मुद्गमङ्गल्यवनमुद्गमकुष्ठकाः।
मसूरकफलाढक्यश्चणकाश्चपृथग्विधाः॥
श्लोक 23
कषायस्वादुलघवो विबन्धाध्मानकारिणः।
रूक्षा बद्धमलाः शीता विपाके कटुका हिताः॥
श्लोक 24
पित्तासृक्कफमेदस्सु सूपालेपादियोजनात्।
सूप्यानामुत्तमा मुद्गा लघीयांशोऽल्पमारुताः॥
श्लोक 25
हरितास्तेष्वपि वरा मकुष्ठाः क्रिमिकारिणः।
वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्॥
श्लोक 26
राजमाषो गुरुर्भूरिशकृद्रूक्सोऽतिवातलः।
कषायस्वादुरूक्षोष्णाः कुलत्था रक्तपित्तलाः॥
श्लोक 27
पीनसश्वासकासार्शोहिध्मानाहकफानिलान्।
घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम्॥
श्लोक 28
ग्राहिणो लघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः।
निष्पावस्तु सरो रूक्षः कषायमधुरो गुरुः॥
श्लोक 29
पाकेऽम्लो वातविष्टम्भी स्तन्यमूत्रास्रपित्तकृत्।
उष्णो विदाही दृक्च्छुक्रकफशोफविशापहः॥
श्लोक 30
माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः।
गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्॥
श्लोक 31
फलानि गुणवद्विद्यात् काकाण्डोलात्मगुप्तयोः।
कुशाम्रशिम्बी मधुरा वातपित्तहरा हिमा॥
श्लोक 32
मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः।
स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बिजातयः॥
श्लोक 33
स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः।
मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतोऽनिलापहः॥
श्लोक 34
अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत्।
कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुण॥
श्लोक 35
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः।
दृक्च्छुक्रहृत् कटुः पाके तद्वत् बीजं कुसुम्भजम्॥
श्लोक 36
माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च।
नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत्॥
श्लोक 37
लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम्।
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्॥
इति शिम्बिधान्यवर्गः।
श्लोक 38
मण्डपेयाविलेपीनामोदनस्य च लाघवम्।
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः॥
श्लोक 39
तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्।
स्रोतोमार्दवकृत् स्वेदी सन्धुक्षयति चानलम्॥
श्लोक 40
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा।
मलानुलोमनी पथ्या पेया दीपनपाचनी॥
श्लोक 41
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिताम्॥
श्लोक 42
सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः।
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः॥
श्लोक 43
विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः।
इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्॥
श्लोक 44
शुष्यतां व्याधिमुक्तानां शुद्धानां शुद्धिकाङ्क्षिणाम्।
कृशक्षामक्षतोरस्कक्षीणधात्विन्द्रियौजसाम्॥
श्लोक 45
दृष्टिश्रवणवह्न्यायुर्बलवर्णस्वरार्थिनाम्।
भग्नाविश्लिष्टसन्धीनां व्रणिनां वातरोगिणाम्॥
श्लोक 46
हृद्यः पथ्यः परं वृष्यो बृंहणः प्रीणनो रसः।
मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्॥
श्लोक 47
वातानुलोमी कौलत्थो गुल्मतूनिप्रतूनिजित्।
प्रभूताभ्यन्तरमलो माषसूपः परं स्मृतः॥
श्लोक 48
खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वौषधानुगौ।
पिशितेन रसस्तत्र यूषो धान्यैः खलः फलैः॥
श्लोक 49
मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः।
ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः॥
श्लोक 50
अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः।
विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम्॥
श्लोक 51
गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा।
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्॥
श्लोक 52
चाण्डाकीवटकं दृघ्नं दोषलं ग्लपनं गुरु।
पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः॥
श्लोक 53
हृद्या वृष्या रुचिकरा गुरुवो रागषाडवाः।
प्रीणना भ्रमतृट्च्छरिदिमेदमूर्छाश्रमच्छिदः॥
श्लोक 54
तृट्च्छर्दिश्रमनुन्मन्थः शीतः सद्योबलप्रदः।
प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनः॥
श्लोक 55
रसाला बृंहणी वृष्या स्निग्धा बलय रुचिप्रदा।
श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु॥
श्लोक 56
विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्।
लाजास्तृट्च्छर्द्यतीसारमेहमेदःकफच्छिदः॥
श्लोक 57
कासपित्तोपशमना दीपना लघवो हिमाः।
पृथुका गुरवो बल्याः कफविष्टम्भकारिणः॥
श्लोक 58
धान विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः।
कण्ठनेत्रमयक्षुत्तृट्श्रमछर्दिव्रणापहा॥
श्लोक 59
सक्तवो लघवः पानात् सद्य एव बलप्रदाः।
निचयात् कठिना गुर्वी प्रोक्ता पिण्डी मृदुर्लघुः॥
श्लोक 60
सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका।
शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना॥
श्लोक 61
नोदकान्तरितान्न द्विर्न निशायां न केवलान्।
न भुक्त्वा न द्विजैश्छित्वा सक्तूनद्यान्न वा बहून्॥
श्लोक 62
कर्कन्धुबदरदीनां श्रमतृष्णाक्लमच्छिदः।
सक्तवोऽम्लरसा हृद्या यथाद्रव्यगुणाश्च ते॥
श्लोक 63
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः।
वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः॥
श्लोक 64
मुद्गदिजास्तु गुरवो यथाद्रव्यगुणानुगाः।
कुकूलकर्परभ्राष्टकन्द्वङ्गारविपाचितान्।
एकयोनीन् लघून्विद्यादपूपानुत्तरोत्तरम्॥
इति कृतान्नवर्गः।
श्लोक 65
हरिणैणकुरङ्गर्श्यगोकर्णमृगमातृकाः।
कालपुच्छकचारुष्कवरपोतशशोरणाः॥
श्लोक 66
श्वदंष्ट्रामशरभकोहकारकशम्बराः।
करालकृतमालौ च पृषतश्च मृगाः स्मृताः॥
श्लोक 67
लाववातिकवर्तीररक्तवर्त्मककर्कराः।
कपिञ्जलोपचक्राख्यचकोररुरुबाहवः॥
श्लोक 68
वर्तको वर्तिका चेति तित्तिरिः क्रकरः शिखी।
तारचूडाख्यवरकगोनर्दगिरिवर्तिकाः॥
श्लोक 69
तथा शारपदेन्द्राह्ववारटाश्चेति विष्किराः।
शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः॥
श्लोक 70
खञ्जरीटकहारीतदुर्नामारिकृशाग्रहाः।
लट्वा लडूषो वटहा रोक्ष्वेलो डिण्डिमाणवः॥