अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 7

श्लोक 1

अथातो राजयक्ष्मचिकित्सितं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्।
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् सस्नेहं यन्न कर्शनम्॥

श्लोक 3

पयसा फलयुक्तेन मधुरेण रसेन वा।
सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया॥

श्लोक 4

वमेद्विरेचनं दद्यात्त्रिवृच्श्यामानृपद्रुमान्॥
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा।
द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्॥

श्लोक 5

शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्।
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च॥

श्लोक 6

शालिषष्टिकगोधूमयवमुद्गं समास्थितम्।
लघुमच्युतवीर्यं च सुजरं बलकृच्च यत्॥

श्लोक 7

आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्।
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम्॥

श्लोक 8

गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम्।
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे॥

श्लोक 9

मृगाद्याः पित्तकफयोः पवने प्रसहादयः।
वेशवारीकृताः पथ्या रसादिषु च कल्पिताः॥

श्लोक 10

भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम्।
रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः॥

श्लोक 11

हिता मौद्गककौलत्थास्तद्वद्यूषाश्च साधिताः।
सपिप्पलीकं सयवं सकुलत्थं सनागरम्॥

श्लोक 12

सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्।
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः॥

श्लोक 13

कोलदाडिमनिर्यासपिष्टयास्थिविहीनया।
द्राक्षया स्वच्छधान्याम्बुप्लुतालोडितकल्कया॥

श्लोक 14

कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः।
समाक्षिकः सकर्पूरः सलवङ्कः सकेसरः॥

श्लोक 15

चन्द्रकान्तो यथार्थाख्यः शोषहाग्निरुचिप्रदः।
शुक्ताम्लधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम्॥

श्लोक 16

गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः।
वृक्षाम्लधान्यद्रमिलीराजिकादाडिमोषणैः॥

श्लोक 17

पलेन नागपुष्पस्य किञ्चित् सौवर्चलेन च।
ससेव्यपत्रत्वक्तोयः सुरसारसमूर्छितः॥

श्लोक 18

भूरिभूस्तृणको रागः कण्ठ्यो रुच्यः समाक्षिकः।
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्॥

श्लोक 19

पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः।
सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम्॥

श्लोक 20

पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा।
कल्पयेच्चानुकूलोस्य तेनान्नं शुचि यत्नवान्॥

श्लोक 21

दशमूलेन पयसा सिद्धं मांसरसेन वा।
बलागर्भं घृतं योज्यं क्रव्यामांसरसेन वा॥

श्लोक 22

सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा।
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च॥

श्लोक 23

पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्।
नीलित्पलं तामलकीं त्रायमाणां दुरालभाम्।
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्॥

श्लोक 24

दुरालभां गोक्षुरकं चतस्त्रः पर्णिनीर्बलाम्।
भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च॥

श्लोक 25

पचेद्दशगुणे तोये दशभागावशेषिते।
पूते तस्मिन् घृतप्रस्थं क्षीरद्विगुणितं पचेत्॥

श्लोक 26

गर्भं दत्वा शठीकृष्णाभूनिम्बोत्पलसारिवाः।
त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम्॥

श्लोक 27

कुटजाच्च जयेत्तद्धि शिरःपार्श्वांसवेदनाम्।
तृष्णां छर्दिमतीसारं कासदाहभ्रमज्वरान्॥

श्लोक 28

घृतं खर्जूरमृद्वीकामधुकैः सपरूसकैः।
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्॥

श्लोक 29

दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्।
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्॥

श्लोक 30

शिरःपार्श्वासशूलघ्नं कासश्वासज्वरापहम्।
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियात् घृतम्॥

श्लोक 31

पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे।
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्॥

श्लोक 32

पञ्चकोलयवक्षारषट्पलेन पचेत् घृतम्।
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्॥

श्लोक 33

गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्।
कासश्वासाग्निसदनश्वयथूर्ध्वानिलान् जयेत्॥

श्लोक 34

रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि।
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम्।
अश्वगन्धाशृतात् क्षीरात् घृतं च ससितापयः॥

श्लोक 35

साधारणामिषतुलां तोयद्रोणद्वये पचेत्।
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः॥

श्लोक 36

साधयेत् सर्पिषः प्रस्थं वातपित्तामयापहम्।
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा।
कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्॥

श्लोक 37

यष्टीबलागुडूच्यल्पपञ्चमूलतुलां पचेत्।
शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेत् घृतात्॥

श्लोक 38

धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे।
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्।
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्॥

श्लोक 39

मूर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसम्।
गोगजाजाविहयजं पयस्तुल्यान् दश द्रवान्॥

श्लोक 40

स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारु च।
पचेत्तच्चाशु शोषघ्नं तद्वद्वासावरीघृतम्॥

श्लोक 41

द्विपञ्चमूलवरणयवबिल्वपुनर्नवाः।
करञ्जबोलस्थविरकुलस्थबदराग्निकाः॥

श्लोक 42

गर्भं दत्वा स्नुहीक्षीरं शुकाख्याचव्यसैन्धवम्।
हरीतकीं च तच्छोषशोफमेहोदरापहम्॥

श्लोक 43

यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनान्विताम्।
सिद्धानां सर्पिषामेषां दद्यादन्नेन वा सह॥

श्लोक 44

एलाजमोदत्रिफलासौराष्ट्रीव्योषचित्रकान्।
सारानरिष्टगायत्रीसालबीजकसम्भवान्॥

श्लोक 45

भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्।
सलिले षोडशगुणे षोडशांशस्थितं पचेत्॥

श्लोक 46

पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट्।
तवक्षीर्याः क्षिपेत्त्रिंशत् सिताया द्विगुणं मधु॥

श्लोक 47

घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम्।
पयोनुपानं तत् प्राह्णे रसायनमयन्त्रणम्॥

श्लोक 48

मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्।
मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्।
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते॥

श्लोक 49

खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः।
त्रिफलापिप्पलीमुस्ताशृङ्गाटगुडशर्कराः॥

श्लोक 50

वीराशठीपुष्कराख्यासुरसाशर्करागुडाः।
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः॥

श्लोक 51

विडङ्गसारश्चविका त्र्यूषणं च विचूर्णितम्।
अर्धश्लोकैः स्मृता लेहाः पञ्चैते मधुसर्पिषा।
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनः॥

श्लोक 52

त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्।
चूर्णिता भक्षयेल्लिह्यात् पूर्ववद्वा तथागुणाः॥

श्लोक 53

तिलमाषाश्वगन्धा वा माक्षिकाजघृतदुताः।
पूर्वोक्तेष्वेव रोगेषु वातप्रायेषु पूजिताः॥

श्लोक 54

स्वरसादचिकित्सितम्।
विशेषात् स्वरसादेऽस्य नस्यधूमादि योजयेत्।
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम्॥

श्लोक 55

कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम्।
साधितं कासजित् स्वर्यं सिद्धमार्तगलेन वा॥

श्लोक 56

बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्।
तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः॥

श्लोक 57

हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्।
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम्।
अश्नीयात् पायसं चैवं स्निग्धं स्वेदं च योजयेत्॥

श्लोक 58

पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोनुपः।
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्॥

श्लोक 59

अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्।
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च॥

श्लोक 60

सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्।
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला॥

श्लोक 61

साधितं क्षीरसर्पिश्च तत् स्वव्र्यं नावनं परम्।
लिह्यान्मधुरकाणां च चूर्णं मधुघृतान्वितम्॥