श्लोक 71
जटी दुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः।
शारिकाशुकशार्ङ्गाख्यचिरीटीककुयष्टिकाः॥
श्लोक 72
मञ्जरीयकदात्यूहगोधापुत्रप्रियात्मजाः।
कलविङ्कः परभृतः कपोतोऽङ्गारचूडकः॥
श्लोक 73
पारावतः पाणविक इत्युक्ताः प्रतुदा द्विजाः।
श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः॥
श्लोक 74
भेकचिल्लटकूचीका गोधाशल्यकशाण्डकाः।
वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः॥
श्लोक 75
गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः।
मार्जारमूषिकव्याघ्रवृकबभ्रुतरक्षवः॥
श्लोक 76
लोपाकजम्बुकश्येनचाषोलूकश्ववायसाः।
शशघ्नीभासकुररगृध्रवेश्यकुलिङ्गकाः॥
श्लोक 77
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः।
महिषन्यङ्कुरोहीतवराहरुरुवारणाः॥
श्लोक 78
सृमरश्चमरः खड्गो गवयश्च महामृगाः।
हंससारसकादम्बबककारण्डवप्लवाः॥
श्लोक 79
मृणालकण्ठचक्राह्वबलाका रक्तशीर्षकाः।
उत्क्रोशपुण्डरीकाक्षशरारीमणितुण्डकाः
श्लोक 80
काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः।
नद्यास्योमल्लिकाद्याश्च पक्षिणो जलचारिणः॥
श्लोक 81
मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः।
शुक्तिशङ्खोद्रुशम्बूकशफरीवर्त्मिचन्द्रिकाः॥
श्लोक 82
बुलूकीनक्रमकरशिंशुमारतिमिङ्गलाः।
राजी चिलिचिमाद्यश्च मांसमित्याहुरष्टधा॥
श्लोक 83
योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते।
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ॥
श्लोक 84
विकीर्यादिक्रियायोगैर्भक्षणाद्विष्किरादयः।
तत्र बद्धमला रुच्या मांसानामुत्तमाः हिमाः॥
श्लोक 85
कषायस्वादुविशदा लघवो जाङ्गला हिताः।
पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे॥
श्लोक 86
ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्।
लघीयान् षड्रसश्चासौ ग्राही रूक्षो हिमः शशः॥
श्लोक 87
कटुपाकोऽग्निकृत् पथ्यः सन्निपातेऽनिलावरे।
तद्वल्लावोऽप्यरूक्षस्तुं किञ्चिद्रूक्षः कपिञ्जलः॥
श्लोक 88
पारावताः कपोताश्चृअ तद्वद्वन्याः सुपूजिताः।
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः॥
श्लोक 89
तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्।
ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्॥
श्लोक 90
धन्वानूपविचारित्वात् स्निग्धोष्णगुरुबृंहणः।
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्॥
श्लोक 91
तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः।
मेधानलकरा हृद्याः करकराः सोपचक्रकाः॥
श्लोक 92
गुरुः सलवणः काणकपोतः सर्वदोषकृत्।
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्॥
श्लोक 93
मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः।
शीता महामृगास्तेषु क्रव्यादाः प्रसहाः पुनः॥
श्लोक 94
चक्षुष्याः सृष्टविण्मूत्रा मांसलाः कटुपाकिनः।
जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः॥
श्लोक 95
गोधा नियछति विषं मूषिकः शुक्रवर्धनः।
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्॥
श्लोक 96
कार्श्यकेवलवातांश्च गोमांसं सन्नियच्छति।
चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्॥
श्लोक 97
गुरूष्णो महिषः स्निग्धः स्वप्नदार्ढ्यबृहत्वकृत्।
तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः॥
श्लोक 98
हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः।
कफपित्तकरा मत्स्याः परं पवननाशनाः॥
श्लोक 99
प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च।
रोहितः प्रवरस्तेषां परं चिलिचिमोऽवरः॥
श्लोक 100
अगोचरविचारित्वात् सर्वदोषकरो हि सः।
कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः॥
श्लोक 101
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्।
शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्॥
श्लोक 102
विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्।
अतिमेद्यं त्यजेन्मांसं हतं व्याधिविषोदकैः॥
श्लोक 103
स्वयं मृतं धूमपूर्णमगोचरभृतं कृशम्।
सद्योहतं वयस्थं च शुद्धं सुरभि शस्यते॥
श्लोक 104
एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः।
तित्तिरिः क्रकरो गोधा श्वाविड्गृध्रो मृगाधिपः॥
श्लोक 105
तथैव शारिका न्यङ्कुर्हंसो रोहितकच्छपौ।
वर्त्मी चाग्र्याः स्ववर्गेषु प्रवरास्तेष्वपि स्मृताः॥
श्लोक 106
लावैणगोधाः सिंहाश्च निन्दितो गौः सदर्दुरः।
ऋश्यः काणकपोतश्च शेषमुक्तं यथायथम्॥
श्लोक 107
गुरूण्यण्डानि बालानां कषायमधुरं पलम्।
वृद्धानां स्नायुभूयिष्ठमबल्यं गुरुदोषलम्॥
श्लोक 108
पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः।
लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान्॥
श्लोक 109
शिरस्कन्धोरुपृष्ठस्य कट्याः सक्थ्योश्च गौरवम्।
तथामपक्वाशययोर्यथापूर्वं विनिर्दिशेत्॥
श्लोक 110
शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्।
मांसात् गरीयो बृषणमेढ्रवृक्कयकृत्गुदम्॥
इति मांसवर्गः।
श्लोक 111
शाकं पाठाशटीश्रूषासुनिषण्डसतीनजम्।
त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम्॥
श्लोक 112
सुनिषण्डोऽग्निकृद्वृष्यस्तेषु राजक्षवः परम्।
ग्रहण्यर्शोविकारघ्नो वर्च्चोभेदी तु वास्तुकः॥
श्लोक 113
हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी।
काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी॥
श्लोक 114
ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः।
पटोलसप्तलारिष्टशार्ङ्गाष्ठावल्गुजामृताः॥
श्लोक 115
वेत्राग्रबृहतीवाशाकुन्तलीतिलपर्णिकाः।
मण्डूकपर्णीकर्क्कोटकारवेल्लकपर्पटाः॥
श्लोक 116
नाडीकलायगोजिह्वावार्त्ताकवनतिक्तकम्।
करीरं कूलकं नन्दी कुवेला शकुलादनी॥
श्लोक 117
कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम्।
तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्॥
श्लोक 118
हृद्यं पटोलं क्रिमिनुत् स्वादुपाकं रुचिप्रदम्।
पित्तलं दीपन भेदि वातघ्नं बृहतीद्वयम्॥
श्लोक 119
वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्।
कारवेल्लं सकटुकं दीपनं कफपित्तजित्॥
श्लोक 120
वार्त्ताकं कटुतिक्तोष्णं मधुरं कफवातजित्।
सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्॥
श्लोक 121
करीरमाध्मानकरं कषायं स्वादुतिक्तकम्।
कोशातकावल्गुजकौ भेदिनावग्निदीपनौ॥
श्लोक 122
श्यामाशाल्मलिकाश्मर्यभञ्जकीर्णकयूथिकाः।
वृक्षादिनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः॥
श्लोक 123
लोध्रः शणः कच्छुदारः सशेलुर्वृषमुष्टिका।
भल्लातकः कोविदारः कमलोत्पलकिंशुकम्॥
श्लोक 124
पटोलादिगुणं स्वादु कषायं पित्तजित् परम्।
बद्धमूत्रा सरा भञ्जी करीरं स्यादभीरुजम्॥
श्लोक 125
सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत्।
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघु॥
श्लोक 126
मदपित्तविषास्रघ्नो मुञ्जातं वातपित्तजित्।
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत् परम्॥
श्लोक 127
पालक्या पिछिला गुर्व्वी श्लेष्मला भेदिनी हिमा।
मदघ्न्युपोदका चुञ्चुर्ग्राही तौ पूर्ववत्तथा॥
श्लोक 128
विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला।
जीवनी बृंहणी कण्ठ्या गुर्वीवृष्या रसायनी॥
श्लोक 129
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा।
शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु॥
श्लोक 130
वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिका।
कूष्माण्डतुम्बकालिङ्गकर्कारूर्वारुतिण्डिशम्॥
श्लोक 131
तथा त्रपुसचीनाकचिर्भिटं कफवातकृत्।
भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु॥
श्लोक 132
वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्।
बस्तिशुद्धिकरं वृषं त्रपुसं त्वतिमूत्रलम्॥
श्लोक 133
तुम्बं रूक्षतरं ग्राहि कालिङ्गोर्वारुचिर्भिटम्।
बालं पित्तहरं शीतं विद्यात् पक्वमतोऽन्यथा॥
श्लोक 134
शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्।
रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु॥
श्लोक 135
मृणालबिसशालूकशृङ्गाटककशेरुकाः।
नन्दीमाषककेलूटक्रौञ्चादनकलोड्यकम्॥