अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 8

श्लोक 1

सर्व-रोग-निदानोक्तैर् अ-हितैः कुपिता मलाः ।
अ-चक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः ॥ १ ॥

श्लोक 2

सिराभिर् ऊर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः ।
वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा ॥ २ ॥

श्लोक 3

रोगान् कुर्युश् चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः ।
सुप्तोत्थितस्य कुरुते वर्त्म-स्तम्भं स-वेदनम् ॥ ३ ॥

श्लोक 4

पांसु-पूर्णाभ-नेत्र-त्वं कृच्छ्रोन्मीलनम् अश्रु च ।
विमर्दनात् स्याच् च शमः कृच्छ्रोन्मूलं वदन्ति तत् ॥ ४ ॥

श्लोक 5

चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः ।
करोत्य् अ-रुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते ॥ ५ ॥

श्लोक 6

विमुक्त-संधि निश्-चेष्टं हीनं वात-हतं हि तत् ।
कृष्णाः पित्तेन बह्व्यो ऽन्तर्-वर्त्म कुम्भीक-बीज-वत् ॥ ६ ॥

श्लोक 7

पित्तेन वर्त्मनो ऽन्तर्-जा बह्व्यः कुम्भीक-बीज-वत् आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भि-संज्ञिताः ।
स-दाह-क्लेद-निस्तोदं रक्ताभं स्पर्शना-क्षमम् ॥ ७ ॥

श्लोक 8

पिटिकाः कुम्भि-संज्ञकाः पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् ।
करोति कण्डूं दाहं च पित्तं पक्ष्ंान्तम् आस्थितम् ॥ ८ ॥

श्लोक 9

पित्तं आश्रितम् पक्ष्मणां शातनं चानु पक्ष्म-शातं वदन्ति तम् ।
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥ ९ ॥

श्लोक 10

पक्ष्मणां शतनं चानु पक्ष्मणां सदनं चानु शोफोपदेह-रुक्-कण्डू-पिच्छिलाश्रु-समन्विताः ।
कफोत्क्लिष्टं भवेद् वर्त्म स्तम्भ-क्लेदोपदेह-वत् ॥ १० ॥

श्लोक 11

ग्रन्थिः पाण्डुर-रुक्-पाकः कण्डू-मान् कठिनः कफात् ।
कोल-मात्रः स लगणः किञ्-चिद् अल्पस् ततो ऽथ-वा ॥ ११ ॥

श्लोक 12

किञ्-चिद् अल्पस् ततो ऽपि वा रक्ता रक्तेन पिटिका तत्-तुल्य-पिटिकाचिता ।
उत्सङ्गाख्या तथोत्क्लिष्टं राजी-मत् स्पर्शना-क्षमम् ॥ १२ ॥

श्लोक 13

रक्ता रक्तेन पिटिकास् तत्-तुल्य-पिटिकाचिताः उत्सङ्गाख्यास् तथोत्क्लिष्टं अर्शो ऽधि-मांसं वर्त्मान्तः स्तब्धं स्निग्धं स-दाह-रुक् ।
रक्तं रक्तेन तत्-स्रावि च्छिन्नं छिन्नं च वर्धते ॥ १३ ॥

श्लोक 14

मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषा-रुग्-वती स्थिरा ।
मुद्ग-मात्रासृजा ताम्रा पिटिकाञ्जन-नामिका ॥ १४ ॥

श्लोक 15

दोषैर् वर्त्म बहिः शूनं यद् अन्तः सूक्ष्म-खाचितम् ।
स-स्रावम् अन्तर्-उदकं बिसाभं बिस-वर्त्म तत् ॥ १५ ॥

श्लोक 16

यद् वर्त्मोत्क्लिष्टम् उत्क्लिष्टम् अ-कस्मान् म्लान-ताम् इयात् ।
रक्त-दोष-त्रयोत्क्लेशाद् भवत्य् उत्क्लिष्ट-वर्त्म तत् ॥ १६ ॥

श्लोक 17

वदन्त्य् उत्क्लिष्ट-वर्त्म तत् श्याव-वर्त्म मलैः सास्रैः श्यावं रुक्-क्लेद-शोफ-वत् ।
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डू-श्वयथु-रागिणी ॥ १७ ॥

श्लोक 18

वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः ।
सिकता-वर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥ १८ ॥

श्लोक 19

बहलं बहलैर् मांसैः स-वर्णैश् चीयते समैः ।
कुकूणकः शिशोर् एव दन्तोत्पत्ति-निमित्त-जः ॥ १९ ॥

श्लोक 20

स्यात् तेन शिशुर् उच्छून-ताम्राक्षो वीक्षणा-क्षमः ।
स-वर्त्म-शूल-पैच्छिल्यः कर्ण-नासाक्षि-मर्दनः ॥ २० ॥

श्लोक 21

ताम्राक्षो वीक्षणे ऽ-क्षमः पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा ।
खर-तान्तर्-मुख-त्वं च रोम्णाम् अन्यानि वा पुनः ॥ २१ ॥

श्लोक 22

वर्त्मनो जायते तथा कण्टकैर् इव तीक्ष्णाग्रैर् घृष्टं तैर् अक्षि शूयते ।
उष्यते चानिलादि-द्विड् अल्पाहः शान्तिर् उद्धृतैः ॥ २२ ॥

श्लोक 23

घृष्टं तैर् अक्षि सूयते उष्यते वानिलादि-द्विड् उष्यते चानिलाद्यैश् च अल्पाहं शान्तिर् उद्धृतैः कनीनके बहिर्-वर्त्म कठिनो ग्रन्थिर् उन्नतः ।
ताम्रः पक्वो ऽस्र-पूय-स्रुद् अलज्य् आध्मायते मुहुः ॥ २३ ॥

श्लोक 24

वर्त्मान्तर् मांस-पिण्डाभः श्वयथुर् ग्रथितो ऽ-रुजः ।
सास्रैः स्याद् अर्बुदो दोषैर् विषमो बाह्यतश् चलः ॥ २४ ॥

श्लोक 25

चतुर्-विंशतिर् इत्य् एते व्याधयो वर्त्म-संश्रयाः ।
आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश् च वर्यजेत् ॥ २५ ॥

श्लोक 26

पक्ष्मोपरोधो याप्यः स्याच् छेषाञ् छस्त्रेण साधयेत् ।
कुट्टयेत् पक्ष्म-सदनं छिन्द्यात् तेष्व् अपि चार्बुदम् ॥ २६ ॥

श्लोक 27

कुट्टयेत् पक्ष्म-शदनं भिन्द्याल् लगण-कुम्भीका-बिसोत्सङ्गाञ्जनालजीः ।
पोथकी-श्याव-सिकता-श्लिष्टोत्क्लिष्ट-चतुष्टयम् ॥ २७ ॥

श्लोक 

स-कर्दमं स-बहलं विलिखेत् स-कुकूणकम् ॥ २७ऊअब् ॥