अष्टाङ्गसंग्रहः कल्पस्थानम् 8

श्लोक 1

अथातो भेषजकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

जाङ्गले साधारणे वा देशे यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णमधुरसुरभिमृत्तिके मृदावफालकृष्टेनुपहतेन्यैर्बल्वत्तरैर्द्रुमैर्भेषजानि प्रशस्यन्त इति सामान्यतो भूमिपरीक्षा॥

श्लोक 3

विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृष्णा स्थूलतृणवृक्षसस्यप्राया स्वगुणभूयिष्ठा।
स्निग्धा शीतलासन्नोदका स्निग्धतृणसस्यकोमलवृक्षप्राया शुक्लाचाम्बुगुणभूयिष्ठा।
नानावर्णलघ्वल्पपुष्पवती प्रविरलपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा।
रूक्षा रासभभस्मवर्णा रूक्षतनुकोटरवृक्षप्रायाल्परसप्ररोहानिलगुणभूयिष्ठा।
मृद्वी समा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामा चाकाशगुणभूयिष्ठा।
तत्राम्बुपृथिवीगुणभूयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते।
अनलानिलाकाशगुणभूयिष्ठासु वमनानि।
सर्वगुणयुक्तासूभयतोभागानि।
आकाशगुणभूयिष्ठासु शमनानि।
एवं बलवत्तमानि भवन्ति॥

श्लोक 4

तत्र यानि कालजान्युपगतसम्पूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनशस्त्रजन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावान्यवगाढमूलान्युदीच्यां दिशि स्थितानि।
तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यम्।
ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम्।
शरदि त्वक्कन्दक्षीराणि।
हेमन्ते साराणि।
यथर्तु पुष्पफलम्॥

श्लोक 5

अन्ये पुनराहुः सौम्यान्यौषधानि सौम्येष्वृतुष्वाग्नेयान्याग्नेयेषु।
एवमव्यापन्नान्यापूर्णतररसवीर्याणि च भवन्ति॥

श्लोक 6

अथ मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य च देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्।
गृहीत्वा चानुरूपगुणवद्भाजनसंस्थान्यगारेषु पूर्वोत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्स्वग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्॥

श्लोक 7

तानि सक्षीराण्युपकल्पयेत्।
तदसम्पत्तावनतिक्रान्तवत्सराणि।
पुराणानि तु पिप्पलीविडङ्गगुडमधुघृतानि॥

श्लोक 8

अपि च।
क्षीरं बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्।
वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्॥

श्लोक 9

पञ्चविधस्तु भेषजानां कषायकल्पः।
निर्यासः कल्को निर्यूहः शीतः फाण्टश्च।
ते यथापूर्वं बलिनः॥

श्लोक 10

तत्र सद्यःसमुद्धृतप्रक्षालितक्षुण्णस्य तान्तवनिष्पीडितस्य स्वरसो निर्यासः।
उपलदशनादिपिष्टस्तु कल्कः।
शुष्कपिष्टः सूक्ष्मतान्तवपटच्युतश्चूर्णः।
तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः।
क्वाथो निर्यूहः॥

श्लोक 11

तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेदयित्वा छेदयानि प्रक्षाल्योदकेन शुचौरूक्षायामधःप्रलिप्तायां ताम्रायोमृन्मयान्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात् तावदुदकमासेचयेच्छोषयेच्च।
अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्यावघट्टयन् मृदुना परितः समुपगच्छतानलेन साधयेत्।
अवतार्य च परिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत॥

श्लोक 12

क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशे अनुपदग्धं क्वाथयेत्॥

श्लोक 13

शीतसलिलाप्लुतस्तु निशापर्युषितपूतः शीतः।
उष्णाम्भसि क्षुण्णाभिषुतपूतः फाण्टः॥

श्लोक 14

तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनां मात्रां च संश्रयेत्॥

श्लोक 15

तथा च केचिदाहुः।
मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः।
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना॥

श्लोक 16

इत्यलमेतदुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय।
यथा तु सर्वभिषजो विज्ञास्यन्ति तथोपदेक्ष्यते।
निर्यासस्य मध्यमा मात्रा चतुष्पलम्।
कल्कचूर्णयोः कर्षः पलत्रयं तदालोडने॥

श्लोक 17

निर्यूहे भेषजपलमुदकार्धप्रस्थेऽधिश्रित्य पादशेषितमवतारयेत्॥

श्लोक 18

शीतफाण्टयोरौषधपलं षट्चतुर्भिरम्बुपलैरासुतमिति॥

श्लोक 19

स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत्पादेन कल्कः॥

श्लोक 20

अन्ये पुनः पठन्ति।
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्।
कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः॥

श्लोक 21

स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्॥

श्लोक 22

पञ्चप्रभृति तु द्रवं पृथक् स्नेहसममेवावपेत्।
अनिरूपितकल्पनं च भैषज्यं कल्कीकुर्यात्।
अथैकध्यं प्रतिसंसृज्याधिश्रित्य च निर्यूहवत्साधयेत्॥

श्लोक 23

तत्र यदा विरमति शब्दः प्रसादमापद्यते स्नेहो यथास्वं वर्णगन्धरसोत्पत्तिर्भैषज्यमङ्गुलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि च स्यात्।
स कालस्तस्यावतरणाय॥

श्लोक 24

अपि च।
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः।
लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च॥

श्लोक 25

अथावतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्यापिधानेन पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धं स्वनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत्॥

श्लोक 26

परिमाणं पुनः षड्वंश्यो मरीचिः।
ताः षट्सर्षपः।
तेऽष्टौ तण्डुलः।
तौ धान्यमाषः।
तौ यवः।
अतः परं चतुर्गुणवृध्याण्डिकामाषकशाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यन्ते।
धरणं तु पलस्य दशमो भागः।
माषकस्य पर्यायो हेमो धानकश्च।
शाणद्वयस्य पर्यायो द्रङ्क्षणः कोलो वटकश्र।
कर्षस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिन्दुकं कवलग्रहः षोडशिका च।
कर्षद्वयस्य शुक्तिरष्टमिका च।
पलस्य मुष्टिः प्रकुञ्चश्चतुर्थिका बिल्वमाम्रं च।
पलद्वयस्य प्रसृतोऽष्टमानं च।
कुडवस्याञ्जलिः।
कुडवद्वयस्य मानिका।
आढकस्य पात्रं कंसश्च।
द्रोणस्य नल्वणार्मणोन्मानघटकुम्भकलशाः।
द्रोणद्वयस्य शूर्पः।
तुला पुनः पलशतं तानि विंशतिर्भार इति।
भवति चात्र॥

श्लोक 27

शुष्कमेयेष्विदं मानं द्विगुणं तु द्रवार्द्रयोः॥

श्लोक 28

पेषणालोडने वारि स्नेहपाके च निर्द्रवे॥

श्लोक 29

कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्॥

श्लोक 30

अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु॥

श्लोक 31

स्नेहपाकस्त्रिधा मन्दश्चिक्कणः खरचिक्कणः।
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे॥

श्लोक 32

किञ्चित् सीदति कृष्णे च वर्त्यमाने तु पश्चिमः।
दग्धोऽतौर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्।
मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च चिक्कणः॥

श्लोक 33

हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा।
सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्॥