अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 8 contd.

श्लोक 85

कल्पयेद् रक्त-शाल्य्-अन्नं व्यञ्जनं शाक-वद् रसान् व्यञ्जनाञ् छाक-वद् रसान् गो-गोधा-छगलोष्ट्राणां विशेषात् क्रव्य-भोजिनाम् ।
मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ॥ ८५ ॥

श्लोक 86

अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् ।
धान्येन धान्य-शुण्ठीभ्यां कण्टकारिकयाथ-वा ॥ ८६ ॥

श्लोक 87

अन्ते भक्तस्य मध्ये वा वात-वर्चो-ऽनुलोमनम् ।
विड्-वात-कफ-पित्तानाम् आनुलोम्ये हि निर्-मले ॥ ८७ ॥

श्लोक 88

गुदे शाम्यन्ति गुद-जाः पावकश् चाभिवर्धते ।
उदावर्त-परीता ये ये चात्य्-अर्थं विरूक्षिताः ॥ ८८ ॥

श्लोक 89

विलोम-वाताः शूलार्तास् तेष्व् इष्टम् अनुवासनम् ।
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम् ॥ ८९ ॥

श्लोक 90

कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च ।
पिष्ट्वा तैलं विपक्तव्यं द्वि-गुण-क्षीर-संयुतम् ॥ ९० ॥

श्लोक 91

कुष्ठं शठीं पुष्कराह्वं कुष्ठं शठीं पौष्कराख्यं कुष्ठं शुण्ठीं पुष्कराख्यं अर्शसां मूढ-वातानां तच् छ्रेष्ठम् अनुवासनम् ।
गुद-निःसरणं शूलं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ ९१ ॥

श्लोक 92

कट्य्-ऊरु-पृष्ठ-दौर्बल्यम् आनाहं वङ्क्षणाश्रयम् ।
पिच्छा-स्रावं गुदे शोफं वात-वर्चो-विनिग्रहम् ॥ ९२ ॥

श्लोक 93

उत्थानं बहु-शो यच् च जयेत् तच् चानुवासनात् ।
निरूहं वा प्रयुञ्जीत स-क्षीरं पाञ्चमूलिकम् ॥ ९३ ॥

श्लोक 94

स-मूत्र-स्नेह-लवणं कल्कैर् युक्तं फलादिभिः ।
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ॥ ९४ ॥

श्लोक 95

मारुतस्य कफस्य च अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद् धिमम् ।
शकृच् छ्यावं खरं रूक्षम् अधो निर्याति नानिलः ॥ ९५ ॥

श्लोक 96

कट्य्-ऊरु-गुद-शूलं च हेतुर् यदि च रूक्षणम् ।
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा ॥ ९६ ॥

श्लोक 97

श्वेता पीता गुरुः स्निग्धा स-पिच्छः स्तिमितो गुदः ।
हेतुः स्निग्ध-गुरुर् विद्याद् यथा-स्वं चास्र-लक्षणात् ॥ ९७ ॥

श्लोक 98

दुष्टे ऽस्रे शोधनं कार्यं लङ्घनं च यथा-बलम् ।
यावच् च दोषैः कालुष्यं स्रुतेस् तावद् उपेक्षणम् ॥ ९८ ॥

श्लोक 99

दोषाणां पाचनार्थं च वह्नि-संधुक्षणाय च ।
संग्रहाय च रक्तस्य परं तिक्तैर् उपाचरेत् ॥ ९९ ॥

श्लोक 100

यत् तु प्रक्षीण-दोषस्य रक्तं वातोल्बणस्य वा ।
स्नेहैस् तत् साधयेत् युक्तैः पानाभ्यञ्जन-वस्तिषु ॥ १०० ॥

श्लोक 101

यत् तु पित्तोल्बणं रक्तं घर्म-काले प्रवर्तते ।
स्तम्भनीयं तद् एकान्तान् न चेद् वात-कफानुगम् ॥ १०१ ॥

श्लोक 102

स-कफे ऽस्रे पिबेत् पाक्यं शुण्ठी-कुटज-वल्कलम् ।
किराततिक्तकं शुण्ठीं धन्वयासं कु-चन्दनम् ॥ १०२ ॥

श्लोक 103

दार्वी-त्वङ्-निम्ब-सेव्यानि त्वचं वा दाडिमोद्भवाम् ।
कुटज-त्वक्-फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ॥ १०३ ॥

श्लोक 104

पिबेत् तण्डुल-तोयेन कल्कितं वा मयूरकम् ।
तुलां दिव्याम्भसि पचेद् आर्द्रायाः कुटज-त्वचः ॥ १०४ ॥

श्लोक 105

नी-रसायां त्वचि क्वाथे दद्यात् सूक्ष्म-रजी-कृतान् ।
समङ्गा-फलिनी-मोच-रसान् मुष्ट्य्-अंशकान् समान् ॥ १०५ ॥

श्लोक 106

तैश् च शक्रयवान् पूते ततो दर्वी-प्रलेपनम् ।
पक्त्वावलेहं लीढ्वा च तं यथाग्नि-बलं पिबेत् ॥ १०६ ॥

श्लोक 107

तैश् च शक्रयवान् पूतं पेयां मण्डं पयश् छागं गव्यं वा छाग-दुग्ध-भुक् ।
लेहो ऽयं शमयत्य् आशु रक्तातीसार-पायु-जान् ॥ १०७ ॥

श्लोक 108

बल-वद् रक्त-पित्तं च स्रवद् ऊर्ध्वम् अधो ऽपि वा ।
कुटज-त्वक्-तुलां द्रोणे पचेद् अष्टांश-शेषितम् ॥ १०८ ॥

श्लोक 109

पचेद् अष्टांश-शेषिताम् कल्की-कृत्य क्षिपेत् तत्र तार्क्ष्य-शैलं कटु-त्रयम् ।
लोध्र-द्वयं मोच-रसं बलां दाडिम-जं त्वचम् ॥ १०९ ॥

श्लोक 110

बिल्व-कर्कटिकां मुस्तं समङ्गां धातकी-फलम् ।
पलोन्मितं दश-पलं कुटजस्यैव च त्वचः ॥ ११० ॥

श्लोक 111

त्रिंशत् पलानि गुडतो घृतात् पूते च विंशतिः ।
तत् पक्वं लेह-तां यातं धान्ये पक्ष-स्थितं लिहन् ॥ १११ ॥

श्लोक 112

सर्वार्शो-ग्रहणी-दोष-श्वास-कासान् नियच्छति ।
लोध्रं तिलान् मोच-रसं समङ्गां चन्दनोत्पलम् ॥ ११२ ॥

श्लोक 113

श्वास-कासान् निबर्हति पाययित्वाज-दुग्धेन शालींस् तेनैव भोजयेत् ।
यष्ट्य्-आह्व-पद्मकानन्ता-पयस्या-क्षीर-मोरटम् ॥ ११३ ॥

श्लोक 114

स-सिता-मधु पातव्यं शीत-तोयेन तेन वा ।
लोध्र-कट्वङ्ग-कुटज-समङ्गा-शाल्मली-त्वचम् ॥ ११४ ॥

श्लोक 115

समङ्गा-शाल्मली-त्वचः हिम-केसर-यष्ट्य्-आह्व-सेव्यं वा तण्डुलाम्बुना ।
यवानीन्द्रयवाः पाट्ःा बिल्वं शुण्ठी रसाञ्जनम् ॥ ११५ ॥

श्लोक 116

चूर्णश् चले हितः शूले प्रवृत्ते चाति-शोणिते ।
दुग्धिका-कण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ॥ ११६ ॥

श्लोक 117

अथ-वा धातकी-लोध्र-कुटज-त्वक्-फलोत्पलैः ।
स-केसरैर् यव-क्षार-दाडिम-स्व-रसेन वा ॥ ११७ ॥

श्लोक 118

शर्कराम्भो-ज-किञ्जल्क-सहितं सह वा तिलैः ।
अभ्यस्तं रक्त-गुद-जान् नव-नीतं नियच्छति ॥ ११८ ॥

श्लोक 119

छागानि नव-नीताज्य-क्षीर-मांसानि जाङ्गलः ।
अन्-अम्लो वा कद्-अम्ल वा स-वास्तुक-रसो रसः ॥ ११९ ॥

श्लोक 120

रक्त-शालिः सरो दध्नः षष्टिकस् तरुणी सुरा ।
तरुणश् च सुरा-मण्डः शोणितस्यौषधं परम् ॥ १२० ॥

श्लोक 121

पेया-यूष-रसाद्येषु पलाण्डुः केवलो ऽपि वा ।
स जयत्य् उल्बणं रक्तं मारुतं च प्रयोजितः ॥ १२१ ॥

श्लोक 122

वातोल्बणानि प्रायेण भवन्त्य् अस्रे ऽति-निःसृते ।
अर्शांसि तस्माद् अधिकं तज्-जये यत्नम् आचरेत् ॥ १२२ ॥

श्लोक 123

दृष्ट्वास्र-पित्तं प्रबलम् अ-बलौ च कफानिलौ ।
शीतोपचारः कर्तव्यः सर्व-था तत्-प्रशान्तये ॥ १२३ ॥

श्लोक 124

न चेद् एवं शमस् तस्य स्निग्धोष्णैस् तर्पयेत् ततः ।
रसैः कोष्णैश् च सर्पिर्भिर् अवपीडक-योजितैः ॥ १२४ ॥

श्लोक 125

यदा चैवं शमो न स्यात् सेचयेत् तं कवोष्णैश् च कामं तैल-पयो-घृतैः ।
यवास-कुश-काशानां मूलं पुष्पं च शाल्मलेः ॥ १२५ ॥

श्लोक 126

न्यग्रोधोदुम्बराश्वत्थ-शुङ्गाश् च द्वि-पलोन्मिताः ।
त्रि-प्रस्थे सलिलस्यैतत् क्षीर-प्रस्थे च साधयेत् ॥ १२६ ॥

श्लोक 127

क्षीर-शेषे कषाये च तस्मिन् पूते विमिश्रयेत् ।
कल्की-कृतं मोच-रसं समङ्गां चन्दनोत्पलम् ॥ १२७ ॥

श्लोक 128

प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् ।
पिच्छा-वस्तिर् अयं सिद्धः स-घृत-क्षौद्र-शर्करः ॥ १२८ ॥

श्लोक 129

प्रवाहिका-गुद-भ्रंश-रक्त-स्राव-ज्वरापहः ।
यष्ट्य्-आह्व-पुण्डरीकेण तथा मोच-रसादिभिः ॥ १२९ ॥

श्लोक 130

क्षीर-द्वि-गुणितः पक्वो देयः स्नेहो ऽनुवासनम् ।
मधुकोत्पल-लोध्राम्बु समङ्गा बिल्व-चन्दनम् ॥ १३० ॥

श्लोक 131

चविकातिविषा मुस्तं पाठा क्षारो यवाग्र-जः ।
दार्वी-त्वङ् नागरं मांसी चित्रको देवदारु च ॥ १३१ ॥

श्लोक 132

चाङ्गेरी-स्व-रसे सर्पिः साधितं तैस् त्रि-दोष-जित् ।
अर्शो-ऽतीसार-ग्रहणी-पाण्डु-रोग-ज्वरा-रुचौ ॥ १३२ ॥

श्लोक 133

मूत्र-कृच्छ्रे गुद-भ्रंशे वस्त्य्-आनाहे प्रवाहणे ।
पिच्छा-स्रावे ऽर्शसां शूले देयं तत् परमौषधम् ॥ १३३ ॥

श्लोक 134

व्यत्यासान् मधुराम्लानि शीतोष्णानि च योजयेत् ।
नित्यम् अग्नि-बलापेक्षी जयत्य् अर्शः-कृतान् गदान् ॥ १३४ ॥

श्लोक 135

जयत्य् अर्शः-कृतां रुजम् उदावर्तार्तम् अभ्यज्य तैलैः शीत-ज्वरापहैः ।
सु-स्निग्धैः स्वेदयेत् पिण्डैर् वर्तिम् अस्मै गुदे ततः ॥ १३५ ॥

श्लोक 136

अभ्यक्तां तत्-कराङ्गुष्ठ-संनिभाम् अनुलोमनीम् ।
दद्याच् छ्यामा-त्रिवृद्-दन्ती-पिप्पली-नीलिनी-फलैः ॥ १३६ ॥

श्लोक 137

विचूर्णितैर् द्वि-लवणैर् गुड-गो-मूत्र-संयुतैः ।
तद्-वन् मागधिका-राठ-गृह-धूमैः स-सर्षपैः ॥ १३७ ॥

श्लोक 138

गुड-गो-मूत्र-पाचितैः एतेषाम् एव वा चूर्णं गुदे नाड्या विनिर्धमेत् ।
तद्-विघाते सु-तीक्ष्णं तु वस्तिं स्निग्धं प्रपीडयेत् ॥ १३८ ॥

श्लोक 139

ऋजू-कुर्याद् गुद-सिरा-विण्-मूत्र-मरुतो ऽस्य सः ।
भूयो ऽनुबन्धे वात-घ्नैर् विरेच्यः स्नेह-रेचनैः ॥ १३९ ॥

श्लोक 140

ऋजू-कुर्याद् गुद-शिरो- अनुवास्यश् च रौक्ष्याद् धि सङ्गो मारुत-वर्चसोः ।
त्रि-पटु-त्रि-कटु-श्रेष्ठा-दन्त्य्-अरुष्कर-चित्रकम् ॥ १४० ॥

श्लोक 141

जर्जरं स्नेह-मूत्राक्तम् अन्तर्-धूमं विपाचयेत् ।
शराव-संधौ मृल्-लिप्ते क्षारः कल्याणकाह्वयः ॥ १४१ ॥

श्लोक 142

स पीतः सर्पिषा युक्तो भक्ते वा स्निग्ध-भोजिना ।
उदावर्त-विबन्धार्शो-गुल्म-पाण्डूदर-कृमीन् ॥ १४२ ॥

श्लोक 143

मूत्र-सङ्गाश्मरी-शोफ-हृद्-रोग-ग्रहणी-गदान् ।
मेह-प्लीह-रुजानाह-श्वास-कासांश् च नाशयेत् ॥ १४३ ॥

श्लोक 144

सर्वं च कुर्याद् यत् प्रोक्तम् अर्शसां गाढ-वर्चसाम् ॥ १४४अब् ॥
द्रोणे ऽपां पूति-वल्क-द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् ॥ १४४च् ॥
द्रोणे ऽपां पूति-वल्कं द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् देयाशीतिर् गुडस्य प्रतनुक-रजसो व्योषतो ऽष्टौ पलानि ॥ १४४द् ॥
एतन् मासेन जातं जनयति परमाम् ऊष्मणः पक्ति-शक्तिं ॥ १४४ए ॥
शुक्तं कृत्वानुलोम्यं प्रजयति गुद-ज-प्लीह-गुल्मोदराणि ॥ १४४f ॥

श्लोक 145

पचेत् तुलां पूति-करञ्ज-वल्काद् द्वे मूलतश् चित्रक-कण्टकार्योः ।
द्रोण-त्रये ऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥ १४५ ॥

श्लोक 146

पलिकं च सु-चूर्णितं त्रि-जात-त्रि-कटु-ग्रन्थिक-दाडिमाश्मभेदम् ।
पुर-पुष्कर-मूल-धान्य-चव्यं हपुषाम् आर्द्रकम् अम्ल-वेतसं च ॥ १४६ ॥

श्लोक 147

शीती-भूतं क्षौद्र-विंशत्य्-उपेतम् आर्द्र-द्राक्षा-बीजपूरार्द्रकैश् च ।
युक्तं कामं गण्डिकाभिस् तथेक्षोः सर्पिः-पात्रे मास-मात्रेण जातम् ॥ १४७ ॥

श्लोक 148

चुक्रं क्रकचम् इवेदं दुर्-नाम्नां वह्नि-दीपनं परमम् ।
पाण्डु-गरोदर-गुल्म-प्लीहानाहाश्म-कृच्छ्र-घ्नम् ॥ १४८ ॥

श्लोक 149

द्रोणं पीलु-रसस्य वस्त्र-गलितं न्यस्तं हविर्-भाजने ॥ १४९अ ॥
युञ्जीत द्वि-पलैर् मदा-मधुफला-खर्जूर-धात्री-फलैः ॥ १४९ब् ॥
पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एलोल्लकैः ॥ १४९च् ॥
पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एल्लाल्लकैः स्पृक्का-कोल-लवङ्ग-वेल्ल-चपला-मूलाग्निकैः पालिकैः ॥ १४९द् ॥

श्लोक 150

गुड-पल-शत-योजितं निवाते निहितम् इदं प्रपिबंश् च पक्ष-मात्रात् ।
निशमयति गुदाङ्कुरान् स-गुल्मान् अनल-बलं प्रबलं करोति चाशु ॥ १५० ॥

श्लोक 151

प्रशमयति गुदाङ्कुरान् स-गुल्मान् एकैक-शो दश-पले दश-मूल-कुम्भ-पाठा-द्वयार्क-घुणवल्लभ-कट्फलानाम् ।
दग्धे स्रुते ऽनु कलशेन जलेन पक्वे पाद-स्थिते गुड-तुलां पल-पञ्चकं च ॥ १५१ ॥

श्लोक 152

पाठाभयार्क-घुणवल्लभ-कट्फलानाम् दद्यात् प्रत्य्-एकं व्योष-चव्याभयानां वह्नेर् मुष्टी द्वे यव-क्षारतश् च ।
दर्वीम् आलिम्पन् हन्ति लीढो गुडो ऽयं गुल्म-प्लीहार्शः-कुष्ठ-मेहाग्नि-सादान् ॥ १५२ ॥

श्लोक 153

तोय-द्रोणे चित्रक-मूल-तुलार्धं साध्यं यावत् पाद-दल-स्थम् अथेदम् ।
अष्टौ दत्त्वा जीर्ण-गुडस्य पलानि क्वाथ्यं भूयः सान्द्र-तया समम् एतत् ॥ १५३ ॥

श्लोक 154

साध्यं यावत् पाद-जल-स्थम् अप्य् इदम् त्रि-कटुक-मिशि-पथ्या-कुष्ठ-मुस्ता-वराङ्ग-कृमिरिपु-दहनैला-चूर्ण-कीर्णो ऽवलेहः ।
जयति गुद-ज-कुष्ठ-प्लीह-गुल्मोदराणि प्रबलयति हुताशं शश्वद् अभ्यस्यमानः ॥१५४ ॥

श्लोक 155

जयति गुद-ज-युक्त-प्लीह-गुल्मोदराणि गुड-व्योष-वरा-वेल्ल-तिलारुष्कर-चित्रकैः ।
अर्शांसि हन्ति गुटिका त्वग्-विकारं च शीलिता ॥ १५५ ॥

श्लोक 156

मृल्-लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुट-पाक-वत् ।
अद्यात् स-तैल-लवणं दुर्-नाम-विनिवृत्तये ॥ १५६ ॥

श्लोक 157

मरिच-पिप्पलि-नागर-चित्रकान् क्रम-विवर्धित-भाग-समाहृतान् ।
शिखि-चतुर्-गुण-सूरण-योजितान् कुरु गुडेन गुडान् गुद-ज-च्छिदः ॥ १५७ ॥

श्लोक 158

चूर्णी-कृताः षो-डश सूरणस्य भागास् ततो ऽर्धेन च चित्रकस्य ।
महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्-नाम-जयाय पिण्डी ॥ १५८ ॥

श्लोक 159

पथ्या-नागर-कृष्णा-करञ्ज-वेल्लाग्निभिः सिता-तुल्यैः ।
वडबा-मुख इव जरयति बहु-गुर्व् अपि भोजनं चूर्णः ॥ १५९ ॥

श्लोक 160

बहु-गुर्व् अपि भोजनं चूर्णम् कलिङ्ग-लाङ्गली-कृष्णा-वह्न्य्-अपामार्ग-तण्डुलैः ।
भूनिम्ब-सैन्धव-गुडैर् गुडा गुद-ज-नाशनाः ॥ १६० ॥

श्लोक 161

लवणोत्तम-वह्नि-कलिङ्ग-यवांश् चिरिबिल्व-महापिचुमन्द-युतान् ।
पिब सप्त-दिनं मथितालुडितान् यदि मर्दितुम् इच्छसि पायु-रुहान् ॥ १६१ ॥

श्लोक 162

पिब सप्त-दिनं मथितालुलितान् यदि मर्दितुम् इच्छसि पायु-रुहः शुष्केषु भल्लातकम् अग्र्यम् उक्तं भैषज्यम् आर्द्रेषु तु वत्सक-त्वक् ।
सर्वेषु सर्वर्तुषु कालशेयम् अर्शःसु बल्यं च मलापहं च ॥ १६२ ॥

श्लोक 163

भित्त्वा विबन्धान् अनुलोमनाय यन् मारुतस्याग्नि-बलाय यच् च ।
तद् अन्न-पानौषधम् अर्शसेन सेव्यं विवर्ज्यं विपरीतम् अस्मात् ॥ १६३ ॥

श्लोक 164

अर्शो-ऽतिसार-ग्रहणी-विकाराः प्रायेण चान्यो-ऽन्य-निदान-भूताः ।
सन्ने ऽनले सन्ति न सन्ति दीप्ते रक्षेद् अतस् तेषु विशेषतो ऽग्निम् ॥ १६४ ॥
रक्षेत् ततस् तेषु विशेषतो ऽग्निम्