श्लोक 56
श्रेष्ठा-व्योष-यव-क्षार-दार्वी-द्वीपि-रसाञ्जनैः ।
स-पाठा-तेजिनी-निम्बैः शुक्त-गो-मूत्र-साधितैः ॥ ५६ ॥
श्लोक 57
कवडो गुटिका वात्र कल्पिता प्रतिसारणम् ।
निचुलं कटभी मुस्तं देवदारु महौषधम् ॥ ५७ ॥
श्लोक 58
कवडो गुटिका चात्र निचुलं कटभी मुस्ता वचा दन्ती च मूर्वा च लेपः कोष्णो ऽर्ति-शोफ-हा ।
अथान्तर्-बाह्यतः स्विन्नां वात-रोहिणिकां लिखेत् ॥ ५८ ॥
श्लोक 59
अङ्गुली-शस्त्रकेणाशु पटु-युक्त-नखेन वा ।
पञ्च-मूलाम्बु कवडस् तैलं गण्डूष-नावनम् ॥ ५९ ॥
श्लोक 60
विस्राव्य पित्त-संभूतां सिता-क्षौद्र-प्रियङ्गुभिः ।
घर्षेत् स-लोध्र-पत्तङ्गैः कवडः क्वथितैश् च तैः ॥ ६० ॥
श्लोक 61
द्राक्षा-परूषक-क्वाथो हितश् च कवड-ग्रहे ।
उपाचरेद् एवम् एव प्रत्याख्यायास्र-संभवाम् ॥ ६१ ॥
श्लोक 62
सागार-धूमैः कटुकैः कफ-जां प्रतिसारयेत् ।
नस्य-गण्डूषयोस् तैलं साधितं च प्रशस्यते ॥ ६२ ॥
श्लोक 63
अपामार्ग-फल-श्वेता-दन्ती-जन्तुघ्न-सैन्धवैः ।
तद्-वच् च वृन्द-शालूक-तुण्डिकेरी-गिलायुषु ॥ ६३ ॥
श्लोक 64
तुण्डिकेरी-गलायुषु विद्रधौ स्राविते श्रेष्ठा-रोचना-तार्क्ष्य-गैरिकैः ।
स-लोध्र-पटु-पत्तङ्ग-कणैर् गण्डूष-घर्षणे ॥ ६४ ॥
श्लोक 65
कणैर् गण्डूष-धारणम् -कणैर् गण्डूष-घर्षणम् गल-गण्डः पवन-जः स्विन्नो निःस्रुत-शोणितः ।
तिलैर् बीजैश् च लट्वोमा-प्रियाल-शण-संभवैः ॥ ६५ ॥
श्लोक 66
स्विन्नो विस्रुत-शोणितः उपनाह्यो व्रणे रूढे प्रलेप्यश् च पुनः पुनः ।
शिग्रु-तिल्वक-तर्कारी-गज-कृष्णा-पुनर्नवैः ॥ ६६ ॥
श्लोक 67
कालामृतार्क-मूलैश् च पुष्पैश् च करहाट-जैः ।
एकैषीकान्वितैः पिष्टैः सुरया काञ्जिकेन वा ॥ ६७ ॥
श्लोक 68
ताल-मूलार्क-मूलैश् च पुष्पैश् च करघाट-जैः गुडूची-निम्ब-कुटज-हंसपदी-बला-द्वयैः ।
साधितं पाययेत् तैलं स-कृष्णा-देवदारुभिः ॥ ६८ ॥
श्लोक 69
कर्तव्यं कफ-जे ऽप्य् एतत् स्वेद-विम्लापने त्व् अति ।
लेपो ऽजगन्धातिविषा-विशल्याः स-विषाणिकाः ॥ ६९ ॥
श्लोक 70
गुञ्जालाबु-शुकाह्वाश् च पलाश-क्षार-कल्किताः ।
मूत्र-स्रुतं हठ-क्षारं पक्त्वा कोद्रव-भुक् पिबेत् ॥ ७० ॥
श्लोक 71
मूत्र-शृतं यव-क्षारं मूत्र-स्रुतं यव-क्षारं सूत्र-स्रुतं यव-क्षारं साधितं वत्सकाद्यैर् वा तैलं स-पटु-पञ्चकैः ।
कफ-घ्नान् धूम-वमन-नावनादींश् च शीलयेत् ॥ ७१ ॥
श्लोक 72
कफ-घ्नान् धूम-गण्डूषान् वमनादींश् च शीलयेत् मेदो-भवे सिरां विध्येत् कफ-घ्नं च विधिं भजेत् ।
असनादि-रजश् चैनं प्रातर् मूत्रेण पाययेत् ॥ ७२ ॥
श्लोक 73
अ-शान्तौ पाचयित्वा च सर्वान् व्रण-वद् आचरेत् ।
मुख-पाकेषु स-क्षौद्रा प्रयोज्या मुख-धावनाः ॥ ७३ ॥
श्लोक 74
अ-शान्तौ पाटयित्वा च प्रयोज्या मुख-पावनाः क्वथितास् त्रि-फला-पाठा-मृद्वीका-जाति-पल्लवाः ।
निष्ठेव्या भक्षयित्वा वा कुठेरादिर् गणो ऽथ-वा ॥ ७४ ॥
श्लोक 75
निघृष्टव्या भक्षयित्वा मुख-पाके ऽनिलात् कृष्णा-पट्व्-एलाः प्रतिसारणम् ।
तैलं वात-हरैः सिद्धं हितं कवड-नस्ययोः ॥ ७५ ॥
श्लोक 76
पित्तास्रे पित्त-रक्त-घ्नः कफ-घ्नश् च कफे विधिः ।
लिखेच् छाकादि-पत्त्रैश् च पिटिकाः कठिनाः स्थिराः ॥ ७६ ॥
श्लोक 77
पित्तास्रे रक्त-पित्त-घ्नः यथा-दोषोदयं कुर्यात् संनिपाते चिकित्सितम् ।
नवे ऽर्बुदे त्व् अ-संवृद्धे छेदिते प्रतिसारणम् ॥ ७७ ॥
श्लोक 78
स्वर्जिका-नागर-क्षौद्रैः क्वाथो गण्डूष इष्यते ।
गुडूची-निम्ब-कल्कोत्थो मधु-तैल-समन्वितः ॥ ७८ ॥
श्लोक 79
यवान्न-भुक् तीक्ष्ण-तैल-नस्याभ्यङ्गांस् तथाचरेत् ।
वमिते पूति-वदने धूमस् तीक्ष्णः स-नावनः ॥ ७९ ॥
श्लोक 80
समङ्गा-धातकी-लोध्र-फलिनी-पद्मकैर् जलम् ।
धावनं वदनस्यान्तश् चूर्णितैर् अवचूर्णितम् ॥ ८० ॥
श्लोक 81
चूर्णितैर् अवचूर्णनम् शीतादोप-कुशोक्तं च नावनादि च शीलयेत् ॥ ८१अब् ॥
फल-त्रय-द्वीपि-किराततिक्त-यष्ट्य्-आह्व-सिद्धार्थ-कटु-त्रिकाणि ॥ ८१च्द् ॥
मुस्ता-हरिद्रा-द्वय-याव-शूक-वृक्षाम्लकाम्लाग्रिम-वेतसाश् च ॥ ८१एf ॥
श्लोक 82
अश्वत्थ-जम्ब्व्-आम्र-धनञ्जय-त्वक् त्वक् चाहिमारात् खदिरस्य सारः ।
क्वाथेन तेषां घन-तां गतेन तच्-चूर्ण-युक्ता गुटिका विधेयाः ॥ ८२ ॥
श्लोक 83
ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठ-ताल्व्-आदि-गदान् सु-कृच्छ्रान् ।
विशेषतो रोहिणिकास्य-शोष-गन्धान् विदेहाधिपति-प्रणीताः ॥ ८३ ॥
श्लोक 84
खदिर-तुलाम् अम्बु-घटे पक्त्वा तोयेन तेन पिष्टैश् च ।
चन्दन-जोङ्गक-कुङ्कुम-परिपेलव-वालकोशीरैः ॥ ८४ ॥
श्लोक 85
सुरतरु-लोध्र-द्राक्षा-मञ्जिष्ठा-चोच-पद्मक-विडङ्गैः ।
स्पृक्का-नत-नख-कट्फल-सूक्ष्मैला-ध्यामकैः स-पत्तङ्गैः ॥ ८५ ॥
श्लोक 86
तैल-प्रस्थं विपचेत् कर्षांशैः पान-नस्य-गण्डूषैस् तत् ।
हत्वास्ये सर्व-गदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम् ॥ ८६ ॥
श्लोक 87
कर्षांशैः पान-नस्य-गण्डूषैः हन्त्य् आस्ये सर्व-गदान् उद्वर्तितं च प्रपुनाट-लोध्र-दार्वीभिर् अभ्यक्तम् अनेन वक्त्रम् ।
निर्-व्यङ्ग-नीली-मुख-दूषिकादि संजायते चन्द्र-समान-कान्ति ॥ ८७ ॥
श्लोक 88
निर्-व्यङ्ग-नीली-मुख-दूषिकं च पल-शतं बाणात् तोय-घटे पक्त्वा रसे ऽस्मिंश् च पलार्धिकैः ।
खदिर-जम्बू-यष्ट्यानन्ताम्रैर् अहिमार-नीलोत्पलान्वितैः ॥ ८८ ॥
श्लोक 89
खदिर-जम्बू-यष्ट्यानन्ता-लोध्रैर् तैल-प्रस्थं पाचयेच् छ्लक्ष्ण-पिष्टैर् एभिर् द्रव्यैर् धारितं तन् मुखेन ।
रोगान् सर्वान् हन्ति वक्त्रे विशेषात् स्थैर्यं धत्ते दन्त-पङ्क्तेश् चलायाः ॥ ८९ ॥
श्लोक 90
तैल-प्रस्थं पाचयेत् सूक्ष्म-पिष्टैर् एभिर् द्रव्यैर् धारितं तत् सुखेन खदिर-साराद् द्वे तुले पचेद् वल्कात् तुलां चारिमेदसः ।
घट-चतुष्के पाद-शेषे ऽस्मिन् पूते पुनः क्वथनाद् घने ॥ ९० ॥
श्लोक 91
खदिर-साराद् द्वे तुले विपचेद् वल्क-तुलां चारिमेदसः वल्कल-तुलां चारिमेदसः वल्कल-तुलां चारिमेदतः ऽस्मिन् पूते पुनः क्वाथनाद् घने ऽस्मिन् पूते पुनः क्वाथयेद् घने आक्षिकं क्षिपेत् सु-सूक्ष्मं रजः सेव्याम्बु-पत्तङ्ग-गैरिकम् ।
चन्दन-द्वय-लोध्र-पुण्ड्राह्व-यष्ट्य्-आह्व-लाक्षाञ्जन-द्वयम् ॥ ९१ ॥
श्लोक 92
आक्षिकं क्षिपेत् सु-सूक्ष्म-रजः आक्षिकं च क्षिपेत् सूक्ष्म-रजः कार्षिकं क्षिपेत् सु-सूक्ष्म-रजः चन्दन-द्वय-श्यामा-पुण्ड्राह्व- धातकी-कट्फल-द्वि-निशा-त्रि-फला-चतुर्-जात-जोङ्गकम् ।
मुस्त-मञ्जिष्ठा-न्यग्रोध-प्ररोह-मांसी-यवासकम् ॥ ९२ ॥
श्लोक 93
प्ररोह-वचा-मांसी-यवासकम् पद्मकैला-समङ्गाश् च शीते तस्मिंस् तथा पालिकां पृथक् ।
जातीपत्त्रिकां स-जाति-फलां सह-लवङ्ग-कण्कोल्लकाम् ॥ ९३ ॥
श्लोक 94
पद्मकैलेय-समङ्गाश् च शीते तथा पालिकां पृथक् सह-नख-लवङ्ग-कङ्कोल्लकाम् स्फटिक-शुभ्र-सुरभि-कर्पूर-कुडवं च तत्रावपेत् ततः ।
कारयेद् गुटिकाः सदा चैता धार्या मुखे तद्-गदापहाः ॥ ९४ ॥
श्लोक 95
कारयेद् गुटिकाश् चैता कार्याश् चैता गुटिका क्वाथ्यौषध-व्यत्यय-योजनेन तैलं पचेत् कल्पनयानयैव ।
सर्वास्य-रोगोद्धृतये तद् आहुर् दन्त-स्थिर-त्वे त्व् इदम् एव मुख्यम् ॥ ९५ ॥
श्लोक 96
क्वाथौषध-व्यत्यय-योजनेन सर्वास्य-रोग-प्रशमार्थम् उक्तं सर्वास्य-रोगे व्ययनं तद् आहुर् खदिरेणैता गुटिकास् तैलम् इदं चारिमेदसा प्रथितम् ।
अनुशीलयन् प्रति-दिनं स्वस्थो ऽपि दृढ-द्वि-जो भवति ॥ ९६ ॥
श्लोक 97
वृद्धो ऽपि दृढ-द्वि-जो भवति क्षुद्रा-गुडूची-सुमनः-प्रवाल-दार्वी-यवास-त्रि-फला-कषायः ।
क्षौद्रेण युक्तः कवड-ग्रहो ऽयं सर्वामयान् वक्त्र-गतान् निहन्ति ॥ ९७ ॥
श्लोक 98
द्राक्षा-गुडूची-सुमनः-प्रवाल- पाठा-दार्वी-त्वक्-कुष्ठ-मुस्ता-समङ्गा-तिक्ता-पीताङ्गी-लोध्र-तेजोवतीनाम् ।
चूर्णः स-क्षौद्रो दन्त-मांसार्ति-कण्डू-पाक-स्रावाणां नाशनो घर्षणेन ॥ ९८ ॥
श्लोक 99
गृह-धूम-तार्क्ष्य-पाठा-व्योष-क्षाराग्न्य्-अयो-वरा-तेजो-ह्वैः ।
मुख-दन्त-गल-विकारे स-क्षौद्रः कालको विधार्यश् चूर्णः ॥ ९९ ॥
श्लोक 100
स-क्षौद्रः कालिको विधार्यश् चूर्णः दार्वी-त्वक्-सिन्धूद्भव-मनःशिला-याव-शूक-हरितालैः ।
धार्यः पीतक-चूर्णो दन्तास्य-गलामये स-मध्व्-आज्यः ॥ १०० ॥
श्लोक 101
द्वि-क्षार-धूमक-वरा-पञ्च-पटु-व्योष-वेल्ल-गिरि-तार्क्ष्यैः ।
गो-मूत्रेण विपक्वा गलामय-घ्नी रस-क्रिया एषा ॥ १०१ ॥
श्लोक 102
द्वि-क्षार-गृह-धूमक-वरा- गो-मूत्रेण पिबन् क्वाथं गो-मूत्र-क्वथन-विलीन-विग्रहाणां पथ्यानां जल-मिशि-कुष्ठ-भावितानाम् ।
अत्तारं नरम् अणवो ऽपि वक्त्र-रोगाः श्रोतारं नृपम् इव न स्पृशन्त्य् अन्-अर्थाः ॥ १०२ ॥
श्लोक 103
सप्तच्छदोशीर-पटोल-मुस्त-हरीतकी-तिक्तक-रोहिणीभिः ।
यष्ट्य्-आह्व-राजद्रुम-चन्दनैश् च क्वाथं पिबेत् पाक-हरं मुखस्य ॥ १०३ ॥
श्लोक 104
पटोल-शुण्ठी-त्रि-फला-विशाला-त्रायन्ति-तिक्ता-द्वि-निशामृतानाम् ।
पीतः कषायो मधुना निहन्ति मुखे स्थितश् चास्य-गदान् अ-शेषान् ॥ १०४ ॥
श्लोक 105
मुखोत्थितांश् चाशु गदान् अ-शेषान् स्व-रसः क्वथितो दार्व्या घनी-भूतः स-गैरिकः ।
आस्य-स्थः स-मधुर् वक्त्र-पाक-नाडी-व्रणापहः ॥ १०५ ॥
श्लोक 106
पटोल-निम्ब-यष्ट्य्-आह्व-वासा-जात्य्-अरिमेदसाम् ।
खदिरस्य वरायाश् च पृथग् एवं प्रकल्पना ॥ १०६ ॥
श्लोक 107
खदिरायो-वरा-पार्थ-मदयन्त्य्-अहिमारकैः ।
गण्डूषो ऽम्बु-शृतैर् धार्यो दुर्-बल-द्वि-ज-शान्तये ॥ १०७ ॥
श्लोक 108
मुख-दन्त-मूल-गल-जाः प्रायो रोगाः कफास्र-भूयिष्ठाः ।
तस्मात् तेषाम् अ-सकृद् रुधिरं विस्रावयेद् दुष्टम् ॥ १०८ ॥
श्लोक 109
काय-शिरसोर् विरेको वमनं कवड-ग्रहाश् च कटु-तिक्ताः ।
प्रायः शस्तं तेषां कफ-रक्त-हरं तथा कर्म ॥ १०९ ॥
श्लोक 110
यव-तृण-धान्यं भक्तं विदलैः क्षारोषितैर् अप-स्नेहाः ।
यूषा भक्ष्याश् च हिता यच् चान्यच् छ्लेष्म-नाशाय ॥ ११० ॥
श्लोक 111
यव-तृण-धान्यं भुक्तं विदलैः क्षारोषितैर् अप-स्नेहम् प्राणानिल-पथ-संस्थाः श्वसितम् अपि निरुन्धते प्रमाद-वतः ।
कण्ठामयाश् चिकित्सितम् अतो द्रुतं तेषु कुर्वीत ॥ १११ ॥