श्लोक 1-2
अथातोऽपस्मारनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3
इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः||३||
श्लोक 4
त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते; तद्यथा- रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः
समाचरतामत्युपक्षयाद्वा [१] दोषाः प्रकुपिता
रजस्तमोभ्यामुपहतचेतसामन्तरात्मनः
श्रेष्ठतममायतनं हृदयमुपसृत्योपरि तिष्ठन्ते, तथेन्द्रियायतनानि च|
तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि [२] चेरिताः कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहसाऽभिपूरयन्ति, तदा जन्तुरपस्मरति||४||
श्लोक 5
अपस्मारं पुनः
स्मृतिबुद्धिसत्त्वसम्प्लवाद्बीभत्सचेष्टमावस्थिकं तमः प्रवेशमाचक्षते ||५||
श्लोक 6-7
तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- भ्रूव्युदासः सततमक्ष्णोर्वैकृतमशब्दश्रवणं
लालासिङ्घाणप्रस्रवणमनन्नाभिलषणमरोचकाविपाकौ
हृदयग्रहः कुक्षेराटोपो दौर्बल्यमस्थिभेदोऽङ्गमर्दो मोहस्तमसो दर्शनं मूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तनव्यधनव्यथनवेपनपतनादीनीति||६||
ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव||७||
श्लोक 8
तत्रेदमपस्मारविशेषविज्ञानं भवति, तद्यथा- अभीक्ष्णमपस्मरन्तं, क्षणेन [१] सञ्ज्ञां प्रतिलभमानम्, उत्पिण्डिताक्षम्, असाम्ना विलपन्तम्, उद्वमन्तं फेनम्, – अतीवाध्मातग्रीवम्, आविद्धशिरस्कं, विषमविनताङ्गुलिम्, -अनवस्थितपाणिपादम्,
-अरुणपरुषश्यावनखनयनवदनत्वचम्,
-अनवस्थितचपलपरुषरूक्षरूपदर्शिनं, वातलानुपशयं, विपरीतोपशयं च वातेनापस्मरन्तं [२] विद्यात् (१)||८|| -अभीक्ष्णमपस्मरन्तं क्षणेन [३] सञ्ज्ञां प्रतिलभमानम्, अवकूजन्तम्, आस्फालयन्तं भूमिं हरितहारिद्रताम्रनखनयनवदनत्वचं,
रुधिरोक्षितोग्रभैरवादीप्तरुषितरूपदर्शिनं,
पित्तलानुपशयं, विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात्
(२) ||८||
चिरादपस्मरन्तं, चिराच्च सञ्ज्ञां प्रतिलभमानं, पतन्तम्, -अनतिविकृतचेष्टं, लालामुद्वमन्तं, शुक्लनखनयनवदनत्वचं, शुक्लगुरुस्निग्धरूपदर्शिनं, श्लेष्मलानुपशयं, विपरीतोपशयं च श्लेष्मणाऽपस्मरन्तं विद्यात् (३)||८|| समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात्,
-तमसाध्यमाचक्षते (४) ||८||
इति चत्वारोऽपस्मारा व्याख्याताः ||८||
श्लोक 9
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्यामः |
तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित्||९||
श्लोक 10
हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं मन्त्रादीनि चागन्तुसंयोगे ||१०||
श्लोक 11-14
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रवणतरणधावनप्लवनलङ्घनाद्यैर्देहविक्षोभणैः पुरा गुल्मोत्पत्तिरभूत्, हविष्प्राशात् प्रमेहकुष्ठानां, भयत्रासशोकैरुन्मादानां, विविधभूताशुचिसंस्पर्शादपस्माराणां, ज्वरस्तु खलु महेश्वरललाटप्रभवः [१], तत्सन्तापाद्रक्तपित्तम्, अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति||११||
भवन्ति चात्र – अपस्मारो हि वातेन पित्तेन च कफेन च। चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः||१२||
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः । तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः । तदा साधारणं कर्म प्रवदन्ति भिषग्विदः||१४||
श्लोक 15
सर्वरोगविशेषज्ञः सर्वौषधविशारदः।
भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति [१] ||१५||
श्लोक 16
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम्|१६|
श्लोक 16-19
निदानार्थकरो रोगो रोगस्याप्युपलभ्यते||१६||
तद्यथा- ज्वरसन्तापाद्रक्तपित्तमुदीर्यते।
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते [१] ||१७||
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च। अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||
प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः। क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते||१९||
श्लोक 20
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः। उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||
श्लोक 21
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ।
न प्रशाम्यति चाप्यन्यो हेत्वर्थं [१] कुरुतेऽपि च||२१||
श्लोक 22
एवं कृच्छ्रतमा नृणां दृश्यन्ते व्याधिसङ्कराः । प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||
श्लोक 23
प्रयोगः शमयेद्वयाधिं योऽन्यमन्यमुदीरयेत्।
नासौ विशुद्धः, शुद्धस्तु शमयेद्यो न कोपयेत्||२३||
श्लोक 24-26
एको हेतुरनेकस्य तथैकस्यैक एव हि। व्याधेरेकस्य चानेको बहूनां बहवोऽपि च ||२४||
ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजाः । रूक्षेणैकेन चाप्येको ज्वर एवोपजायते||२५||
हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत्। रूक्षादिभिर्ज्वराद्याश्च व्याधयः सम्भवन्ति हि ||२६||
श्लोक 27-29
लिङ्गं चैकमनेकस्य तथैवैकस्य [१] लक्ष्यते। बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि [२] च||२७||
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः ।
ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते||२८||
विषमारम्भमूलैश्च ज्वर एको निरुच्यते। लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः||२९||
श्लोक 30-32
एका शान्तिरनेकस्य तथैवैकस्य [१] लक्ष्यते । व्याधेरेकस्य चानेका बहूनां बह्व्य एव च ||३०||
शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया| ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते||३१||
तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः । एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तयः||३२||
श्लोक 33-35
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते| साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ||३३||
याति नाशेषतां व्याधिरसाध्यो याप्यसञ्ज्ञितः। परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते||३४||
नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्। पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः ||३५||
श्लोक 36-37
वृद्धिस्थानक्षयावस्थां रोगाणामुपलक्षयेत् [१] |
सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम्||३६|| व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः | तस्यां तस्यामवस्थायां चतुःश्रेयः [२] प्रपद्यते ||३७||
श्लोक 38-39
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्। तेषु [१] न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम्||३८||
प्रयोगैः क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत्।
ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथासन्नं [२] हरेद्बुधः||३९||
श्लोक 40
ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि सङ्ग्रहे। व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः||४०||
श्लोक 41
विकारः प्रकृतिश्चैव द्वयं सर्वं समासतः।
तद्धेतुवशगं हेतोरभावान्नानुवर्तते||४१||
श्लोक 42-44
तत्र श्लोकाः- हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा| सम्प्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितात्||४२||
ज्वरादीनां विकाराणामष्टानां साध्यता न च| पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः||४३||
हेतुपर्यायनामानि व्याधीनां लक्षणस्य च । निदानस्थानमेतावत् सङ्ग्रहेणोपदिश्यते||४४||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं नामाष्टमोऽध्यायः ||८||
इति चरकसंहितायां द्वितीयं निदानस्थानं समाप्तम्।