अष्टाङ्गसंग्रहः सूत्रस्थानम्  तृतीयोऽध्यायः

श्लोक 1

अथातो दिनचर्यां नामाध्यायं व्याख्यास्यामः।
इति ह स्माऽहुरात्रेयादयो महर्षयः॥

श्लोक 2

ब्राह्मे मुहूर्ते उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्।
रक्षार्थमायुषः स्वस्थो जातवेगः समुत्सृजेत्॥

श्लोक 3

उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि।
वाचं नियम्य प्रयतः संवीताङ्गोऽवगुण्ठितः॥

श्लोक 4

प्रवर्त्तयेत् प्रचलितं न तु यत्नादुदीरयेत्।
नामेध्यमार्गमृत्भस्मगोस्थानाकीर्णगोमये॥

श्लोक 5

पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे।
न नारीपूज्यगोर्केन्दुवाय्वन्नाग्निजलं प्रति॥

श्लोक 6

न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः।
नवेगितोऽन्यकार्यः स्यान्नाजित्वासाध्यमामयम्॥

श्लोक 7

निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः।
अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्॥

श्लोक 8

लेपगन्धापहं शौचमनुत्पतिताबिन्दुभिः।
स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्युच्तान्॥

श्लोक 9

स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने।
रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः॥

श्लोक 10

प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्।
अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः॥

श्लोक 11

नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न्न पूतिभिः।
न फेनबुल्बुदक्षारैर्नैकहस्तार्पितैर्जलैः॥

श्लोक 12

नाद्रैकपाणिर्न्नामेध्यहस्तपादो न शब्दवत्।
वटासनार्कखदिरकरञ्जकरवीरजम्॥

श्लोक 13

सर्जारिमेदापामार्गमालतीककुभोद्भवम्।
कषायतिक्तकटुकं मूलमन्यदपीदृशम्॥

श्लोक 14

विज्ञातवृक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्।
कनीन्यग्रसमस्थौल्यं सुकूर्च्चं द्वादशाङ्गुलम्॥

श्लोक 15

प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्।
वाप्यत्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्॥

श्लोक 16

शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्।
लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च॥

श्लोक 17

तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः।
रुचिवैशद्यलघुता न भवन्ति भवन्ति च॥

श्लोक 18

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्॥

श्लोक 19

नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्।
बिल्ववञ्चुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान्॥

श्लोक 20

कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून्।
पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्॥

श्लोक 21

स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्।
पालाशमासनं दन्तधावनं पादुके त्यजेत्॥

श्लोक 22

दन्तान् पूर्वमधो घर्षेत् प्रातः सिञ्चेच्च लोचनं।
तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा॥

श्लोक 23

प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्।
शृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम्॥

श्लोक 24

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्।
लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने॥

श्लोक 25

व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी।
चक्षुस्तेजोमयं तस्य विशेषात्च्छेलष्मतो भयम्॥

श्लोक 26

योजयेत्सप्तरात्रेऽस्मात् स्रावणाथ रसाञ्जनम्।
अणुतैलं ततो नस्यं ततो गण्डूषधारणम्॥

श्लोक 27

घनोन्नतप्रसन्नत्वक्रकन्धग्रीवास्यवक्षसः।
सुगन्धिवदनाः स्निग्धनिस्वना विमलेन्द्रियाः॥

श्लोक 28

निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः।
ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः॥

श्लोक 29

न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्।
खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः॥

श्लोक 30

अरोचकास्यवैरस्यमलपूतिप्रसेकजित्।
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्॥

श्लोक 31

प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्।
धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः॥

श्लोक 32

अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्।
धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्॥

श्लोक 33

गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्।
वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्॥

श्लोक 34

माल्यं न लम्बं न बहिर्न रक्तं जलजाद्दते।
नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ॥

श्लोक 35

रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्।
जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह॥

श्लोक 36

ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्।
रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम्।

श्लोक 37

विषमूर्च्छामदार्तानामपथ्यं शोषिणां च तत्।
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे॥

श्लोक 38

द्विपत्रंएकं पूगं च सचूर्णखदिरं च तत्।
उत्तिष्ठेत ततोत्यर्थमर्थेष्वर्थानुबन्धिषु॥

श्लोक 39

निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्।
कृषिं वाणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्॥

श्लोक 40

लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम्।
मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः॥

श्लोक 41

पाणिनाऽलभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्।
सातपत्रपदत्राणो विचरेद्युगमात्रद्दक्॥

श्लोक 42

निशि चात्ययिके कार्ये दण्डी मौली सहायवान्।
प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरोऽहनि॥

श्लोक 43

चैत्यपूज्यध्वजाशस्तच्चायाभस्मतुषाशुचीन्।
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च॥

श्लोक 44

मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्।
न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम्॥

श्लोक 45

सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न।
न हुंकुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च॥

श्लोक 46

नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्।
चतुष्पथं नमस्कुर्यात् प्रज्ञातांश्च वनस्पतीन्॥

श्लोक 47

न व्यालव्याधिताशस्तैर्नादान्दक्षुत्पिपासितैः।
न च्छिन्नपुच्छैर्नैकाक्षैगापृष्ठेन च न व्रजेत्॥

श्लोक 48

नाऽतिप्रगेऽतिसायं वा न नभोमध्यगे रवौ।
नासन्निहितपानीयो नातितूर्णं न सन्ततम्॥

श्लोक 49

न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह।
दद्याद्वर्त्माऽर्तवृद्धस्त्रीभारिचक्रद्विजन्मने॥

श्लोक 50

स्रानभोजनपानानि वाहेभ्यो न+आचरेत् पुरः।
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्॥

श्लोक 51

नाऽरोहोद्विषमं शैलं नावं संशयितां तरुम्।
निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्॥

श्लोक 52

न वार्यमाणः प्रविशेन्नाद्वारेण ना च+आसने।
स्वयं तिष्ठेत् परगृहे युक्तनिंद्रं न बोधयेत्॥

श्लोक 53

न+आचरेत् पाणिवाक्पादद्दङ्मेढ्रेदरचापलम्।
त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत्॥

श्लोक 54

न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत्।
अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः॥

श्लोक 55

यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्।
अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत्॥

श्लोक 56

दग्धभग्नक्षतरुजाक्लमश्रमजरापहः।
रथाक्षचर्मघटवत् भवन्त्यभ्यङ्गतो गुणाः॥

श्लोक 57

स्पर्शनेऽभ्याधिको वायुःस्पर्शनं च त्वगाश्रयम्।
त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः॥

श्लोक 58

शिरः श्रवणपादेषु तं विशेषेण शीलयेत्।
स केश्यः शीलितो मूर्ध्नि कपालेन्दिर्यतर्पणः॥

श्लोक 59

हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम्।
पादाभ्यङ्गस्तु तत्स्थैर्यनिद्राद्दष्टि प्रसादकृत्॥

श्लोक 60

पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्।
वर्ज्योभ्यङ्गः कफग्रस्तक्तसंशुद्ध्यजीर्णिभिः॥

श्लोक 61

शरीरायासजननं कर्म व्यायाम उच्यते।
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः॥

श्लोक 62

विभक्तघनगात्रत्वं व्यायामादुपजायते।
वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्॥

श्लोक 63

अर्द्धशक्त्यानिषेव्यस्तु बलिभिः स्निग्धभोजिभिः।
शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा॥

श्लोक 64

तं कृत्वाऽनुसुखं देहं मर्द्दयेच्च समन्ततः।
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः॥