महाचतुष्पादोऽध्यायः

श्लोक 1-2

अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते, यदुक्तं पूर्वाध्याये षोडशगुणमिति, तद्भेषजं युक्तियुक्तमलमारोग्यायेति भगवान् पुनर्वसुरात्रेयः||३||

श्लोक 4

नेति मैत्रेयः, किं कारणं? दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसम्पन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः [१] समुत्तिष्ठमानाः, तथायुक्ताश्चापरे म्रियमाणाः; तस्माद्भेषजमकिञ्चित्करं भवति, तद्यथा-
श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं, नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति; तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ता म्रियमाणाश्चापरे ।
यतश्च प्रतिकुर्वन् सिध्यति, प्रतिकुर्वन् म्रियते; अप्रतिकुर्वन् सिध्यति, अप्रतिकुर्वन् म्रियते; ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति [२] ||४||

श्लोक 5

मैत्रेय [१] ! मिथ्या चिन्त्यत इत्यात्रेयः; किं कारणं, ये ह्यातुराः षोडशगुणसमुदितेनानेन भेषजेनोपपद्यमाना म्रियन्त इत्युक्तं तदनुपपन्नं, न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति; ये पुनरातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते, न तेषां सम्पूर्णभेषजोपपादनाय समुत्थानविशेषो [२] नास्ति; यथा हि पतितं पुरुषं समर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात्, स क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत्, तद्वत् सम्पूर्णभेषजोपलम्भादातुराः; ये चातुराः केवलाद्भेषजादपि म्रियन्ते, न च सर्व एव ते भेषजोपपन्नाः समुत्तिष्ठेरन्, नहि सर्वे व्याधयो भवन्त्युपायसाध्याः, न चोपायसाध्यानां व्याधीनामनुपायेन सिद्धिरस्ति, न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति[३], न ह्यलं ज्ञानवान् भिषङ्गुमूर्षुमातुरमुत्थापयितुं; परीक्ष्यकारिणो हि कुशला भवन्ति, यथा हि योगज्ञोऽभ्यासनित्य इष्वासो धनुरादायेषुमस्यन्नातिविप्रकृष्टे महति काये नापराधवान् भवति, सम्पादयति चेष्टकार्यं, तथा भिषक् स्वगुणसम्पन्न उपकरणवान् वीक्ष्य कर्मारभमाणः साध्यरोगमनपराधः सम्पादयत्येवातुरमारोग्येण; तस्मान्न भेषजमभेषजेनाविशिष्टं भवति||५||

श्लोक 6

यदनातुरेण भेषजेनातुरं चिकित्सामः [२], क्षाममक्षामेण, कृशं च दुर्बलमाप्याययामः, स्थूलं मेदस्विनमपतर्पयामः,
शीतेनोष्णाभिभूतमुपचरामः, शीताभिभूतमुष्णेन, न्यूनान् धातून् पूरयामः, व्यतिरिक्तान् ह्रासयामः, व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः; तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति ||६||

श्लोक 7-8

भवन्ति चात्र-
साध्यासाध्यविभागज्ञो ज्ञानपूर्वं चिकित्सकः। काले चारभते कर्म यत्तत् साधयति ध्रुवम्||७||
अर्थविद्यायशोहानिमुपक्रोशमसङ्ग्रहम् [१] [२] | प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत्||८||

श्लोक 9-10

सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च। द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् [१] ||९||
साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति|
विकल्पो, न त्वसाध्यानां नियतानां विकल्पना||१०||

श्लोक 11-13

हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च। न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्||११||
न च कालगुणस्तुल्यो न देशो दुरुपक्रमः । गतिरेका नवत्वं च रोगस्योपद्रवो न च ||१२|| दोषश्चैकः समुत्पत्तौ देहः सर्वौषधक्षमः । चतुष्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम्||१३||

श्लोक 14-16

निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले। कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च||१४||
गर्भिणीवृद्धबालानां [१] नात्युपद्रवपीडितम्| शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम्||१५||
विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम्।
द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम् ||१६||

श्लोक 17-19

शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया | लब्धाल्पसुखमल्पेन हेतुनाऽऽशुप्रवर्तकम्||१७||

गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्। नित्यानुशायिनं रोगं दीर्घकालमवस्थितम्||१८|| विद्याद्द्विदोषजं,…|१९|

श्लोक 19-20

… तद्वत् प्रत्याख्येयं त्रिदोषजम् |
क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम्||१९||

औत्सुक्यारतिसम्मोहकरमिन्द्रियनाशनम्|
दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टमेव च ||२०||

श्लोक 21-22

भिषजा प्राक् परीक्ष्यैवं विकाराणां स्वलक्षणम्। पश्चात्कर्मसमारम्भः कार्यः साध्येषु धीमता||२१||
साध्यासाध्यविभागज्ञो यः सम्यक्प्रतिपत्तिमान्।
न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत्||२२||

श्लोक 23-24

तत्र श्लोकौ –
इहौषधं पादगुणाः प्रभवो भेषजाश्रयः । आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः||२३||
चतुर्विधविकल्पाश्च व्याधयः स्वस्वलक्षणाः।
उक्ता महाचतुष्पादे येष्वायत्तं भिषग्जितम्||२४||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादो नाम दशमोऽध्यायः ||१०||