महारोगाध्यायः

श्लोक 1-2

अथातो महारोगाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

चत्वारो रोगा भवन्ति – आगन्तुवातपित्तश्लेष्मनिमित्ताः; तेषां चतुर्णामपि रोगाणां रोगत्वमेकविधं भवति, रुक्सामान्यात्; द्विविधा पुनः प्रकृतिरेषाम्, आगन्तुनिजविभागात्; द्विविधं चैषामधिष्ठानं, मनःशरीरविशेषात् [१] ; विकाराः पुनरपरिसङ्ख्येयाः, प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषापरिसङ्ख्येयत्वात्
[२] ||३||

श्लोक 4

मुखानि तु
खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषङ्गाभिघातव्यध बन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि,
निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम्||४||

श्लोक 5

द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||५||

श्लोक 6

सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, न चान्योन्येन सह सन्देहमापद्यन्ते [१] ||६||

श्लोक 7

आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्ते जघन्यं व्यथामभिनिर्वर्तयन्ति||७||

श्लोक 8

तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग [१] उपदेक्ष्यते; तद्यथा – बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि, तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेण श्लेष्मस्थानम्||८||

श्लोक 9-11

सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्ति प्रकृतिभूताः शुभान्युपचयबलवर्णप्रसादादीनि,
-अशुभानि पुनर्विकृतिमापन्ना विकारसञ्ज्ञकानि ||९||

तत्र विकाराः सामान्यजा, नानात्मजाश्च तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः, नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः।
तद्यथा अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः ||१०||

तत्रादी [१] वातविकाराननुव्याख्यास्यामः । -तद्यथा नखभेदश्च विपादिका च, पादशूलं च, पादभ्रंशश्च पादसुप्तता च, वातखुडुता च, गुल्फग्रहश्च पिण्डिकोद्वेष्टनं च गृध्रसी च, जानुभेदश्च जानुविश्लेषश्च, ऊरुस्तम्भश्च, ऊरुसादश्च, पाङ्गुल्यं च, गुदभ्रंशश्च, गुदार्तिश्च, वृषणाक्षेपश्च [२] शेफस्तम्भश्च वङ्क्षणानाहश्च, श्रोणिभेदश्च विड्भेदश्च, उदावर्तश्च खञ्जत्वं च कुब्जत्वं [३] च, वामनत्वं च त्रिकग्रहश्च पृष्ठग्रहश्च पार्श्वावमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च [४] हृद्रवश्च, वक्षौद्धर्षश्च [५] वक्षौपरोधश्च वक्षस्तोदश्च,
3 बाहुशोषश्च, ग्रीवास्तम्भश्च, मन्यास्तम्भश्च, कण्ठोद्ध्वंसश्च, हनुभेदश्च [६] ओष्ठभेदश्च, अक्षिभेदश्च [७] दन्तभेदश्च दन्तशैथिल्यं च,
J मूकत्वं च [८], वाक्सङ्गश्च कषायास्यता च, मुखशोषश्च, अरसज्ञता च, प्राणनाशश्च कर्णशूलं च, अशब्दश्रवणं च, उच्चैः श्रुतिश्च [९], बाधिर्यं च, वर्त्मस्तम्भश्च वर्त्मसङ्कोचश्च, तिमिरं च, अक्षिशूलं च, -अक्षिव्युदासश्च भूव्युदासश्च शङ्खभेदश्च, ललाटभेदश्च शिरोरुक् च, केशभूमिस्फुटनं च, अर्दितं च, एकाङ्गरोगश्च, सर्वाङ्गरोगश्च, पक्षवधश्च [१०] आक्षेपकश्च दण्डकश्च तमश्च [११] भ्रमश्च, वेपथुश्च, जृम्भा च, हिक्का [१२] च, विषादश्च, अतिप्रलापश्च, रौक्ष्यं च, पारुष्यं च, – श्यावारुणावभासता च, अस्वप्नश्च, अनवस्थितचित्तत्वं च; इत्यशीतिर्वातविकारा वातविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः ||११||

श्लोक 12

सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेति वायोरात्मरूपाणि; एवंविधत्वाच्च [१] वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः [२] ; तद्यथा- स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचे
ष्टादीनि [३], तथा रपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूल
सुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैरन्वितं वातविकारमेवाध्यवस्येत्||१२||

श्लोक 13

तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत, स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषे कादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य; तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो
विनाशस्तद्वत्||१३||

श्लोक 14-16

पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः- ओषश्च, प्लोषश्च, दाहश्च दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च अन्तर्दाहश्च, अंसदाहश्च [१], ऊष्माधिक्यं च, अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, -अङ्गावदरणं [२] च, शोणितक्लेदश्च, मांसक्लेदश्च त्वग्दाहश्च, (मांसदाहश्च [३] ), त्वगवदरणं च चर्मदलनं [४] च, रक्तकोठश्च, रक्तविस्फोटश्च, रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा ( क्ष्या) च, कामला च, तिक्तास्यता च, लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिश्च, आस्यविपाकश्च गलपाकश्च अक्षिपाकश्च गुदपाकश्च, मेढ्रपाकश्च जीवादानं च [५] तमः प्रवेशश्च हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः ||१४||
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- – औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जी गन्धश्च विस्रो रसौ च कटुकाम्ली सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च [६] पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा दाहीष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्|| १५ ||

-तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य; विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति, तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवत तद्वत् ||१६||

श्लोक 17-19

श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः; तद्यथा तृप्तिश्च, तन्द्रा च, निद्राधिक्यं च, स्तैमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधुर्यं च, मुखस्रावश्च श्लेष्मोद्गिरणं च, मलस्याधिक्यं च, बलासकश्च [१], अपक्तिश्च, हृदयोपलेपश्च, कण्ठोपलेपश्च, धमनीप्रति (वि) चयश्च, गलगण्डश्च, अतिस्थौल्यं च शीताग्निता च, उदर्दश्च श्वेतावभासता च, श्वेतमूत्रनेत्रवर्चस्त्वं च इति विंशतिः श्लेष्मविकाराः ष्मविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याता क्षयन्ति ।।
सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसन्देहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमात्स्र्न्यानि श्लेष्मण आत्मरूपाणि; एवंविधत्वाच्च [२] श्लेष्मणः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा- श्वैत्यशैत्यकण्डूस्थैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि तैरन्वितं श्लेष्मविकारमेवाध्यवस्येत्|| १८||
-तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं च प्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलं वैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्ने केदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते
तद्वदिति ||१९||

श्लोक 20-22

भवन्ति चात्र-
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्। ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्||२०||
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्। अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया||२१||
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः । देशकालप्रमाणज्ञस्तस्य [१] सिद्धिरसंशयम्||२२||

श्लोक 23-25

तत्र श्लोका:-
सङ्ग्रहः प्रकृतिर्देशो विकारमुखमीरणम् [१] | असन्देहोऽनुबन्धश्च रोगाणां सम्प्रकाशितः||२३||
दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये। रूपं पृथक् च दोषाणां कर्म चापरिणामि यत् ||२४||
पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः । सम्यङ्ग्रहति [२] रोगाणामध्याये तत्त्वदर्शिना||२५||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायो नाम विंशोऽध्यायः ||२०||

समाप्तो रोगचतुष्कः ||५||