लङ्घनबृंहणीयोऽध्यायः

श्लोक 1-2

अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः [१] ||१||

इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3-8

तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्। षडग्निवेशप्रमुखानुक्तवान् परिचोदयन्||३||
लङ्घनं [१] बृंहणं काले रूक्षणं स्नेहनं तथा| स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक् ||४||
तमुक्तवन्तमात्रेयमग्निवेश उवाच ह||५||
भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च [२] कीदृशाः| बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम्||६||
के स्नेहाः [३] स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः। स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो!||७||
लङ्घनप्रभृतीनां च षण्णामेषां समासतः। कृताकृतातिवृत्तानां [४] लक्षणं वक्तुमर्हसि||८||

श्लोक 9-17

तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् | यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ||९||
बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् । रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम् ||१०||
स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् [१] | स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम् ||११||
स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम् | लघुष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्||१२||
कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्| गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्||१३||
प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते । रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्||१४||
प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्। द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्| प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्||१५||
उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्| द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते||१६||
– शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम् | यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम्||१७||

श्लोक 18

चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्||१८||

श्लोक 19-24

प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः। बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः||१९||
येषां मध्यबला रोगाः कफपित्तसमुत्थिताः। वम्यतीसारहृद्रोगविसूच्यलसकज्वराः||२०||
विबन्धगौरवोद्गारहृल्लासारोचकादयः।
पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् ||२१||
एत एव यथोद्दिष्टा येषामल्पबला गदाः । पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत्||२२||
रोगाञ्जयेन्मध्यबलान् [१] व्यायामातपमारुतैः। बलिनां किं पुनर्येषां रोगाणामवरं [२] बलम् ||२३||
त्वग्दोषिणां प्रमीढानां [३] स्निग्धाभिष्यन्दिबृंहिणाम्। शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ||२४||

श्लोक 25-28

अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्| मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५||
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः। स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः ||२६||
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये। तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७||
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः । शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||

श्लोक 29-31

कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः । खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्||२९||
अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये। ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः||३०||
स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः। स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम्||३१||

श्लोक 32-33

द्रवं तन्वसरं यावच्छीतीकरणमौषधम्।
स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत्||३२||
पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः| विषस्वेदातियोगार्ताः स्तम्भनीया [१] निदर्शिताः ||३३||

श्लोक 34-37

वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे। हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते||३४||
स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये। कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ||३५||
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च। क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः||३६||
मनसः सम्भ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि । देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत्||३७||

श्लोक 38-39

बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्। लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते||३८||
कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते [१] |३९|

श्लोक 39-40

स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः||३९||
श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसङ्ग्रहः ।
हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम्||४०||

श्लोक 41-42

लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः। तदौषधानां धातूनामशमो [१] वृद्धिरेव च||४१||
इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः। साध्यानां साधने सिद्धा मात्राकालानुरोधिनः||४२||

श्लोक 43

भवति चात्र-
दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः। षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा||४३||

श्लोक 44

तत्र श्लोका:-
इत्यस्मिँलङ्घनाध्याये व्याख्याताः षडुपक्रमाः।
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते||४४||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः||२२||